पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्र- [३ तृतीयमने-

पूरयित्वा सर्पान्पिपीलिकाञ्जिन्वेत्यप उत्सिञ्चति ।

नुचमिति पूर्वमनुकृष्यते । ऊर्ध्न सिञ्चति त्यजति पूरितकदेशोत्सेचनं वक्तुमप इत्युक्तम् ।

सर्पदेवजनाञ्जिन्वेति द्वितीयां भूतेभ्यस्त्वेति तृतीयां महते देवायेति चतुर्थीम् ।

स्नु, द्वितीयामित्यादि ज्ञेयमुसिञ्चति झुग्गतम् । आपस्तु ता उसिञ्चति पूरणप्रत्यया अपि विशेषण, तथा च पूर्वमुसिक्तास्ततो द्वितीया इत्यादि ज्ञेयम् । अत एव भरद्वाजः प्रथम द्वितीयमित्याद्येव क्रियाया विशेषणमेवाऽऽह । न च द्वितीयान्तं पूरयित्वेत्यने- नानुषज्यमानेनापि संबध्यते । यद्येवं तह्यग्रे पुनः स्युचं पूरयित्वेति न वदेत्पञ्चमीमि स्येव ब्रूयात् । तस्मात्पूरितकैव चतुर्थोसिश्वतीत्येव सिद्धम्

स्रुचमद्भिः पूरयित्वा पृथिव्याममृतं जुहोमि स्वाहेत्यपरेणाऽऽहवनीयमपरेण वा गार्हपत्यं निनयति ।

निनयति रेचयति तदर्धमेव ।

गृहेभ्यस्त्वा गृहान्प्रीणीहीति तस्यैकदेशमञ्जलौ पत्न्याः ।

निनयतीति पूर्वमाकृष्यते । एकदेशम् ।

पत्नी यदि नान्वास्ते सर्वं पृथिव्याम् ।

निनयतीति पूर्ववत् । अनालम्भुकाऽनानवादिना न संनिहिता तदाऽपरेणाऽऽहब- नोयं गार्हपत्यं वा सर्व द्वितीयमेकदेशं गृहेभ्यस्त्वेति पृथिव्यामेव निनयेत् । देवपत्नी- रुद्दिश्य निनीयते तत्र यजमानपत्न्यञ्जलिरधिकरणं तदपगमे तु न प्रधानलोप इति । न च यजमानपत्नीसंस्कारोऽयं द्वितीयादिश्रुतरश्रवणादत एव न प्रतिपनि विभज्य निनयनं तस्यैकदेशमञ्जकी पत्न्याः पत्नी यादे नान्वास्त पर्व पृथिव्यामिति तस्यैक- देशं सर्वमञ्जलौ यदि नान्वास्ते तदा पृथिव्यामिति सबन्धः । सर्वग्रहणं च प्रति- पत्ल्यावृत्तिनिरासार्थ, परार्थान्येकेन क्रियेरनिात न्यायस्य परार्थे संस्कार एव-प्रवृ. तिरिति मा भूपि तहि स्वार्थ यत्र भवत्येवं रूपे चादृष्टार्थेऽपि कर्मणि तथा चैकयैव पत्न्या सिध्यति निनयनमिति वक्तुं सर्वमित्युक्तम् । पृथिव्यामित्यपि न प्रकृतं परामृश्यतेऽपि तु पत्न्यजलिप्रतिनिधित्वेन विधीयते । पत्न्यञ्जलिकरणे याऽधस्ता- स्पृथिवी तस्यामित्यर्थः । आपस्तम्बस्तु पत्न्यायतन इति । दर्शयति च तत्रापि यजमानस्य देवानां चेति विकल्पसंभवात् । अस्माकमपि मन्त्रवर्णप्राप्त्युपस्था पित एव पत्नीस्थानमपि पृथिवीं शब्दनोपस्थाप्यत इति । अत एव भरद्वाजो द्विः पृथिव्यामिति । द्विरिति ग्रह्णादेकत्र स्थल इति गम्यते । स्थलं च प्रकृतमपरेण गाई पत्यं ततः स्थलविकल्पः।