पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७स०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३५१

तिपत्तिमात्रमेव विधेयम् । तदुक्तं कात्यायनेन-स्थाल्यां यत्परिशिनष्टि तद्राह्मणः पिबेत् । तद्वै नाब्राह्मणः पिबेदिति श्रुतेरिति । अतः प्रतिपत्तिस्तु स्रुच्यवशिष्टस्यैव विधया न स्थालीगतस्य तथा चाग्निहोत्रोच्छेषणमातञ्चनार्थं निदधातीति विधीयमान- मुच्छेषणनिधानं झुग्गतमेवास्यैव प्रधानाग्निहोत्रार्थमुन्नीतस्य शिष्टत्वात् । तथा च वाज. सनेयिनां श्रुतिः-स यत्नुचि परिशिनष्टि तदग्निहोत्रोच्छिष्टमिति । तस्याऽऽतञ्चने भक्षलोपः।

हुत्वा महदभिवीक्षेत ।

हुत्वेत्यव्यवधानार्थमुक्तं लेपमार्जनात्पूर्वमेव यथा स्यात्स्थानाल्लेपमार्जनानन्तरं मा भूदिति । तर्हि तत्रैव कुतो नोक्तम् । अत्रोक्तं श्रुतिपाठक्रमेणेत्यदोषः । महदिति व्यापित्वादाकाशमिति केचिन्न तु न कर्मासमवेतार्थावेक्षणेन दृष्टार्थता स्यादतोऽवशिष्टं भूयो महदित्यन्ये । तदपि भूयःशब्दावशिष्टशब्दप्रयोगाभावान्महच्छब्देनाभिधानं कथं स्यात् । बहुशब्दविकारो भूयःशब्दः संसृष्टानेकद्रव्यसंख्यावचनः । महच्छब्दो द्रव्यपरिमाणवाची । न हि महच्छब्देनाभिधेये भूयःशब्दो युज्यते । तस्माद्ब्रह्मैव महच्छब्दवाच्यं व्यापकदृष्टया ध्येयं, तत एव नपुंसकता च । बृहत्त्वाबृंहणत्वा. च्चाऽऽत्मैव ब्रह्म । एवमात्मनः संस्कारे कर्तृसंस्कारत्वेन दृष्टार्थता ब्रह्मरूपत्वेन कर्तृत्वेन ब्रह्मार्पणं प्रायश्चित्तं चेत्यनेकानि प्रयोजनानि सिध्यन्तीत्ययं साधीयान्पक्षः । तथैवोक्तं वैखानसेन भक्षाय भूयः कुर्याद्भुत्वा भूमानं विष्णुं ध्यायेदिति भूमानं यो वै भूमेति श्रुतेरात्मानं विष्णुं व्यापकं ध्यायेदिति ।

रुद्र मृडानार्भव मृड धूर्तमृड नमस्ते अस्तु पशुपते मा मा हिꣳसीरिति स्रुचा त्रिरुदञ्चमग्निमति वल्गयति ।

सकृन्मन्त्रो द्विस्तूष्णीम् । अग्निमग्निज्वालामुद्दीची वल्गयति प्रेरयति कम्पयतीति यावत् । तसह कात्ययनो द्विः प्रकम्पयतीति ।

स्रुचं निधाय लेपमादाय ।

लेप प्रणालीगतमङ्गुलीभिरादाय ।

पितृभ्यस्त्वा पितृञ्जिन्वेति दक्षिणतः स्थण्डिले लेपं निमार्ष्टि।

स्रुचो दक्षिणे भागे स्थल । स्थण्डिलग्रहणं कूर्चे पूर्ववन्मा भूदिति । नीचा हस्तेनेति वैखानसः । उत्तानेनेति कात्यायनः ।

अप उपस्पृश्य।

श्रौतमुदकस्पर्शनम् । वृष्टिरसि वृश्च मे पाप्मानमिति हुत्वोपस्पृशतीति ब्राह्मणं यथा होष्यद्विादप्ति विद्य मे पाप्मानमिति शाखान्तरीयोऽधिकोऽत्राधिकस्यापाठात् । याजमाने पठ्यमानस्तत्रैव विकल्पते नात्र तस्याद्याप्यपठितस्यावुद्धिस्थत्वात् ।