पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७स०पटलः]] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३४७ ।

आयुर्मे यच्छेत्यपरेणाऽऽहवनीयमोषधीषूपसादयति

ओषधयो दर्भास्ते कूर्चरूपेणावस्थितास्तषूपप्तादयति । स्पष्टम्' । प्रथमाग्निहोत्रं व्याहृतिभिरासादयति । संवत्सरान्ते च प्रातरग्निहोत्रमपि व्याहृतिभिः ।

एषा ते अग्ने समिदिति समिधमादधाति ।

प्यायतामित्यन्तः । मध्य आहवनीयस्येति बौधायनः । समिद्वयं तु नुक्संस्कारार्थ नान्यत्तस्य प्रयोजनमुक्तम् ।

हिरण्ययं त्वा वꣳशꣳ स्वर्गस्य लोकस्य संक्रमणं दधामीति वा ता अस्य सूददोहस इति वा रजतां त्वा हरितगर्भामग्निर्ज्योतिषा ज्योतिष्मतीꣳ स्वर्ग्यां कामदुघामक्षितामक्षित्या आप्त्यै व्याप्त्यै समाप्त्यै कामाय स्वर्गाय लोका- यामृतत्वाय रात्रिमिष्टकामुपदध इति सायꣳ हरिणीं त्वा रजतगर्भाꣳ सूर्यो ज्योतिषा ज्योतिष्मतीꣳ स्वर्ग्यां कामदुघामक्षितामक्षित्या आप्त्यै व्याप्त्यै समाप्त्यै कामाय स्वर्गाय लोकायामृतत्वायाहरिष्टकामुपदध इति प्रातः ।

एषा त इति मन्त्रेणैतौ द्वौ समानविकल्पो ता अस्येति पृथग्द्वौ व्यवस्थितौ । केचि- सूत्रकाराः काम्यो द्वाविमापित्याहुः ।

विद्युदसि विद्य मे पाप्मानमृतꣳ सत्यमुपैमि मयि श्रद्धेत्यप उपस्पृश्य ।

मन्त्रणोदकं स्पृष्ट्वा । पाप्मानमित्यन्तः । स्वशाखापठितो विकल्पते ।

यदा श्यावेवाथ जुहोति ज्वलन्त्याम् ।

श्यावेवेषच्छयामा तदा तस्यां ज्वालायुक्तायाम् ।

यदा वा वीतार्चिर्लेलायतीव ।

तदा वा जुहोतीति पूर्वेण विकल्पः । सम्यग्यदा श्यामवर्णा स्क्तत्वमप्राप्ता ज्वलन्ती तस्यामित्येकः पक्षः । द्वितीयस्तु यदा सम्यग्दीप्ता शान्तार्चिः पश्चात्किंचिल्लेलायति वह्निशिखा विच्छिन्नां विच्छिन्नामुद्रुमति तस्यां दशायामिति ।

धूपायन्त्यां ग्रामकामस्य !

ग्रामकामस्य यजमानस्य धूपायन्त्यां वह्निना व्याप्ता यदा धूमवती तस्यां जुहोती- F. त्यनुषङ्गः । पातः

१ क. ग. 8. ण.न्यतरस्य । २ ख. घ. छ. ज. झ. अ. ढ, 'रण्मयं ।