पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७स०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

अधिवृक्षसूर्ये सायमग्निहोत्रायोषसि प्रातरग्निहोत्राय ।

उद्धरतीत्यनुकृष्यते । कालद्वयसंबन्धेन नामद्वयम् । प्रधानस्य साङ्गस्य कालात्पूर्व- तन एव कालेऽनुदितानस्तमितयोरुद्धरणमित्यर्थः । वृक्षानधिकृत्य वर्तत इत्यधिवृक्षः सूर्यो यस्मिन्काले तत्र सायमग्निहोत्रार्थमेवमुषप्ति प्रातरग्निहोत्रार्थम् । उदयानन्तर- होमेऽप्युषस्येवोद्धरणमेवं सायमपि ज्ञेयम् । वैखानसस्तु सायमधिवृक्षसूर्येऽर्धास्तमिते वा प्रातरुषति प्रागुदयाद्वेत्याह । कात्यायनस्त्वनस्तमितानुदितयोरित्याह । असंभव तदपि ग्राह्यम् । उषप्ति प्रातरग्निहोत्रायेत्युषःशब्द उषप्ति श्रूयमाणस्याग्निहोत्रस्योफ- लक्षणार्थम् ।

नक्तं वा धारयेयुः।

सायमेवोद्धृतं प्रातरग्निहोत्रार्थ यजमानः पत्न्यन्यो वेति विवक्षया बहुवचनमुपक्रम एव नियमः । एतदुद्धरणं न धार्ये नापि दर्शपूर्णमासार्धमुद्धृते चासमाप्तयोर्दर्शपूर्णमास- योरेवं पशुबन्धे विकृतेष्ट्यामपि ज्ञेयम् । तत्पूर्व व्याख्यातमेव ।

उद्धरेति प्रेषिते वाचा त्वा होत्रा प्राणेनोद्गात्रा चक्षुषाऽध्वर्युणा मनसा ब्रह्मणा श्रोत्रेणाग्नीधैतैस्त्वा पञ्चभिर्दैव्यैर्ऋत्विग्भिरुद्धरामि जहामि मृत्युममृतेनाऽऽदधामि भूर्भुवः सुवरुद्ध्रियमाण उद्धर पाप्मनो मा यदविद्वान्यच्च विद्वाꣳश्चकार । अह्ना यदेनः कृतमस्ति पापꣳ सर्वस्मान्मोद्धृतो मुञ्च तस्मादिति सायम् ।

उद्धरतीत्यनुषङ्गः । याजमाने तूद्धरेत्युद्भियमाणमनुमन्त्रयत इत्युक्तं तत्तूद्धरण आरब्ध एवोज्रियमाणमिति वचनादत्र च प्रेषित उद्धरतीत्युक्तं तत्र चोद्धरेति मन्त्र. लिङ्गेन च पूर्वकालताप्रतीतौ वर्तमानसामीप्ये वर्तमानवद्वेति सूत्रेणोद्धरिष्यमाण- मित्यर्थस्वीकरणं युक्तं तादृशं लक्षीकृत्ये त्यर्थः । अनुमन्त्रणवचनेन प्रेषित इत्युक्तं तत्र वयं होमेऽप्यनुमन्त्रणेन प्रैषो यथा स्यादसंनिहितेऽन्येनापि श्रेषेण संस्कृत एव कुर्यादिति प्रयोजनम् । अथ वा काष्ठादिप्रक्षेपेण प्रवृत्तमर्वयुमनुलक्षीकृत्य मन्त्रयते प्रेष्यतीत्यर्थः । श्रुतावनुमन्त्रयतिर्दृष्टः स एवानूदितः ।

रात्र्या यदेनः कृतमस्ति पापꣳ सर्वस्मान्मोद्धृतो मुञ्च तस्मादिति प्रातः ।

वाचा त्वेत्यादि चकारेत्यन्तोऽनुषङ्ग उद्धरतीति च ।

१ घ ङ. ज, झ, ञ ह. संप्रेष्यति।