पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३० सत्याषाढविरचितं श्रौतसूत्रं- [३ तृतीयप्रश्ने- तूष्णीकानां विधामाच तूष्णीकेषु प्राकृतेषु यजुरितिपरिभाषोक्तन्यायेन मन्त्रोपसं- हारक्रम दर्शयितुं प्रतिज्ञा । आधानानन्तरमग्निहोत्रं दर्शपूर्णमाप्तौ च नियतावि. त्युक्तमेव । तत्राऽऽधानात्पूर्वमुपोद्धातत्वेन दर्शपूर्णमासौ व्याख्यातावाधानं चातः परमग्निहोत्रमवसर प्राप्त व्याख्यायते । यावज्जीवचोदनायां निःश्रेयसफलता स्वर्गकाम- चोदनायो स्वर्गफलता च दर्शपूर्णमासचोदनाद्वयव्याख्यानेन कृतव्याख्यानेति मत्वा प्रयोगमेव दर्शयति मात्र त्रिंशदादिविरामकाल इति विशेषः । सायंप्रातःकाल(ल). निवयं एकः प्रयोग उपक्रमप्रकारस्तु पूर्वमेव दर्शितः । यद्यपि सायमेवाग्निर्देवता तथाऽप्युभयकालसाध्य एक एव प्रयोग इति प्रातःकालीनमप्यग्निहोत्रमेवाग्नये होत्रं हविर्दानं तद्रूपं कर्माग्नेः प्रधानदेवतात्वाद्यद्यपि प्रजापतिरपि प्रधानदेवता होमाभ्या- सोऽत्र देवताद्वयानुरोधान्न कर्मभेदस्तथाऽपि प्राथम्याद रेव प्रवृत्तिनिमित्ततेति न्यायदर्श- नसंग्रहः । स्वशाखोपदेशस्तु प्रकारान्तरेण । तद्यथा--प्रजापतिरग्निमसजतेत्युपक्रम्य तस्मा एतद्भागधेय प्रायच्छयदग्निहोत्रं तस्मादग्निहोत्रमुच्यत इति च निर्वचनात्तेना- ग्निना प्रातः सूर्याय दत्तमपि नानग्निहोत्रं तथा च प्रजापतद्धितीयदेवतात्वेऽपि नामधे. यमग्निहोत्रमित्येवाग्नये होत्रमस्मिन्कर्मणि कालद्वयसाध्यसमुदायरूपे तदिति वा तत्सं. बन्धाद्रव्ये साधनभूतेऽपि अग्निहोत्रे दर्षिहोमविशेषशब्दो गौण एव जुहोतिचोदि- तत्वात्तथा चात्र साङ्गस्य निरूपणं क्रियत इति दर्शयितुं प्रतिज्ञा तेन न ते दर्विहोम. धर्मा मवन्ति । ततस्तु येषां न श्रुत्यादिनाऽङ्गनात ते पूर्वा दाहोभधर्मा एवाग्रे व्याख्या- स्यन्ते । न विद्यते पूर्वमतिदेशप्रापकं प्रकृतिभूतं कर्म येषां तेऽपूर्वा इति । अयमपि न तथा श्रुत्यादिप्रमाणैः स्वधर्मा सन्नातिदेशमपेक्षते । नापि अपूर्वदविहोमेषु न्यायैरना- रम्य विधिभिश्च विधास्यमानानि धर्मजातानि । प्रकृतिश्चैका साऽग्निहोत्रस्यातो नापूर्वो दविहोम इति होमशब्दस्य चाङ्गहीनचोदनाविहिते रूढत्वात्तस्मादग्निहोत्रे दर्वि. होमशब्दस्य व्यवहारो गौण इति ज्ञेयम् । अत्रापि संकल्पकरणं पूर्ववत्स्वर्गकामो वा सायं प्रातरग्निहोत्रं होण्यामीति संकल्प्याग्निहोत्रस्य यज्ञक्रतोरेक ऋत्विगिति श्रूयते यजुर्वेदविहितत्वादध्वर्युरेव । सूत्रान्तरे स्वयं वा जुहुयाविति दर्शनात्स्वयं होमोऽपि नाऽऽपदि किंतु मुख्य एव ।

तस्मै सायं प्रातर्ज्वलन्त गार्हपत्यादाहवनीयमुद्धरति ।

तस्मा आग्निहोत्रकर्मणेऽर्थायार्यायोद्धरणं प्राप्तमपि गुणविधानार्थमनूद्यते । काल- द्वयेऽपि ज्वलन्तमेवोद्धरेदित्येष गुणो विधीयतेऽन्यैरपि गार्हपत्यमिन्धनैः प्रज्वाल्यैक- देशं ज्वलन्तमेव पात्रेण पृथक्कुर्याद्दक्षिणाग्नेनित्यधारणविधानादाहवनीयमित्युक्तम् । यः प्रधानस्य कालः सोऽङ्गानामिति परिभाषितत्वात्तदपवादमाह-