पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३४ सत्यापाठविरचितं श्रौतसूत्रं- [ तृतीयपने-

दर्भैरुपोलवैः संवत्सरप्रवातैर्गार्हपत्यादाहवनीयं ज्वलन्तमुद्धरति ।

प्रणयनीयेध्मस्थाने दर्भा उपमूलं लूना लवम्यो वोस्थिताः पूर्वच्छिन्नदर्भमूलेम्य उत्पन्ना इति यावत्संवत्सरपर्यन्तं शुष्काः संवत्सरप्रवातास्तेषां मुष्टिं बद्ध्वा तेनोद्धरेता- हायार्थ द्रव्यान्तरं पश्चागृह्यमाणं न निषिध्यते ।

यत्त्वा क्रुद्धः परो वपेति दक्षिणाग्निमादधाति यत्ते मन्युपरोप्तस्येत्याहवनीयम् ।

द्वितीयतृतीययोः प्रथमोत्तमयोरेवापवादार्थम् । अन्ये मन्त्राः समुच्चीयन्त एवेत्युक्त. मेव । सभ्यावसथ्ययोस्तु यथास्थानमप्यतरपि यजमानकार्येऽपि ।

मनो ज्योतिर्जुषतामित्याहितमाहवनीयमुपतिष्ठते।

अध्वर्युर्वृहस्पतिवत्येत्यापस्तम्बः । पाठक्रमेण बृहस्पतिस्तनुतामित्यस्यैव प्राप्तिरिति न विशेषितः

पुनस्त्वाऽऽदित्या रुद्रा वसवः समिन्धतामित्युपसमिन्धे ।

कामा इत्यन्तः।

पुनस्त्वाऽऽदित्या रुद्रा वसवः समिन्धतामित्युपसमिन्धे पुनस्त्वाऽऽदित्या रुद्रा वसवः समिन्धतां पुनर्ब्रह्माणो वसुनीथ यज्ञैः । या इष्टा उषसो निम्रुचश्च याज्यास्ताः संदधामि हविषा घृतेन स्वाहेत्याहुतिं जुहोति। मनो ज्योतिर्जुषतामिति द्वितीयाम् ।

सष्टम् ।

जुहूꣳ स्रुवं च संमृज्य चतुर्गृहीतेनाष्टगृहीतेन द्वादशगृहीतेन वा स्रुचं पूरयित्वा सप्त त इति पूर्णाहुतिं जुहोति ।

पूर्वाहुतिभ्यां पूर्णाहुतेबधिमाशङ्कय पुनर्विहितं सप्त त इति सप्त ते अग्ने समिधः सप्त निहा इत्यग्निहोत्रं जुहोतीति ब्राह्मणात्तथा परिसंख्यार्थ प्रातरग्निहोत्रहोमस्य तूष्णी- कस्यापि तत्र विकल्प उक्तोऽत्र तु प्रातरग्निहोत्रस्याप्यावृत्तिरेव | अन्यद्याजमानमा- ध्वर्यवं चाग्न्याधेयवत्सर्व कार्यमेव ।

आग्नेयमष्टाकपालं पञ्चकपालं वाऽऽग्न्याधेयिकस्याष्टाकपालस्य स्थाने निर्वपति ।

अयं तु पौनराधेयिक आग्नेयः पवमानहविभिरसमानतन्त्र एवं बहुबैलक्षण्याद्भिन्न- तन्त्रपक्षस्याप्यङ्गीकाराच्च ।

१ ख. च. छ. स. 'मानेन का। २. विशेषः ।