पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५०पटळः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३२७.

ष्याच्चि(च्छ्रि)त्रं तस्यां जनताया भवत्विति शबलमिव तस्याऽऽत्मञ्जायते ।

काम्या चतुर्दश्याहुतियां जनता जनसमुदायं द्विण्याद्यजमानश्चि(नः श्वि)त्रं कुष्ठं तस्यां भवत्विति यजमानेन संकल्पे कृते चतुर्दशी जुहोतीत्यन्वयः । तस्य फलं शबल. मिव श्वैत्यमिव जायते तस्याऽऽत्मनि द्वेष्यस्याऽऽत्मनि मुख इति फलम् ।

अपि वा नान्वारम्भणीयां कुर्वीताऽऽग्नेयमष्टाकपालं निर्वपेत् ।

अन्वारम्मणीयास्थाने विकल्पः । अत्रापि दर्शपूर्णमासावारप्स्यमान इत्येव । नन्वि- यमप्यारम्भप्रयुक्ताऽन्वारम्भणीयैवेति कथं नान्वारम्भणीयां कुर्वीतेति । सत्यम् । अन्वा- रम्भणीयाभिन्नाऽऽग्नेयी तु दर्शपूर्णमासावारप्स्यमानेन क्रियमाणाऽऽरम्भणीयैव । ननु को विशेषः । अस्ति विशेषः । आधानादनन्तरमेव प्रारम्भार्थ क्रियते साऽन्वारम्भ- णीया । या विष्टिमध्ये होमं कृत्वाऽऽरभ्यते साऽऽधानादनु न भवतीति नान्वारम्भ- णीया । कुत एतत् । उत्तरसूत्रपालोचनयेति ब्रूमः । अत्रापि तावत्सूत्रे मान्वारम्भ- णीयां कुर्वीतेति न वक्तव्यं किंतु भगिने समामनन्तीत्युक्त्वाऽऽग्नेयमेवाष्टाकपालं निर्व- पेदित्येव वक्तव्यं तथा सति लाघवं स्यात् । एवं च सत्याग्नेयेऽप्युपहोमाश्चित्तमित्या- दिकाः स्युः । एवं सत्यपि गुरुनिर्देशेनाऽऽग्नेये संज्ञयोपहोमा मा भूवन्निति तां संज्ञामपि निवारयन्नाहापि वा नान्वारम्भणीयां कुर्वीतेति । ननु ताग्नेये दर्शपूर्णमासा. वारममाण इति विप्रकृष्टमसंबद्धं व्यवहितं च किमर्थमन्वेत्विति चेत्सत्यम् । तदेय- माग्नेयी निरधिकारा सती केनान्वेतु कल्पनीयमेतस्यां भवेत् । असमाप्तं च दर्शपूर्णमा. सारम्भप्रकरणमतो दर्शपूर्णमासावारभमाण इत्येवं संबध्यते तेनैव सूत्रेण सहाऽऽग्नेयम- टाकपालं निर्वपेदमावास्यायामादधानस्यैतदेविकृतम् । अमावास्याधान आग्नेय्येषा नत्वविशेषेण प्राप्ताऽन्वारम्भणीया साऽमावास्यायामपि वेति सूत्रेण प्रतिषिद्धा प्राप्ति- निवारणेनैव । तथा च पौर्णमास्याधाने विकल्पं वक्तुमुक्तमपि वेति स विकल्पोऽमावा. स्यायामपि प्रसज्येत तदर्थमुक्तमेतदविकृतमिति । अमावास्यायामेवाऽऽधाने कृते पञ्च- दश्यामेव पवमानेष्टिसमाप्तिरागामिपौर्णमास्याः पूर्वदिने चतुर्दश्यामाग्नेय्येव नान्वारम्भ. णीया । अथवोत्तरसूत्रे सेष्ट्यपवृज्य तदानीमेव सारस्वतौ होमावन्वारम्भणीयां च कुरुत इति पुनर्विधानमन्वारम्भणीयायाः पौर्णिमाधाने नियमो न विकल्पस्तेन पौर्णमास्याम- न्वारम्मणीयैवामावास्यायां त्वाग्नेय्येवेति सिद्धम् । न चैतत्कल्पनामात्रमित्यनादरणीयम् । वैखानसेन तथैवाभिधानात्-अमावास्यायामादधानस्य नावारम्भणीयाऽऽग्नेयमष्टाक- पालं निपेदिति । इदमप्येकं विचार्यते-एते इष्टी किं विकृत्यङ्गत्वेनातिदेशेन प्राप्नुतो १ क. ग. च, द. ण, दधिकृ ।