पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ सत्याषाढविरचितं श्रौतसूत्र- [ ३ तृतीयप्रश्ने- प्रदर्शनार्थममावास्यानिवृत्तिस्तु पूर्वा पौर्णमास्युत्तराऽमावास्येति पूर्णमास्यामेवाऽऽरम्म- सिद्धेरारम्भाङ्गत्वेन चतुर्होतारमित्यादि पूर्ववत् । पूर्णा पश्चादिति द्वे चौ ताभ्यां द्विगृहीत्वा जुहोति तौ पार्वणी होमी पर्वदेवताकमन्त्रसाधनत्वात् ।

अन्वारम्भणीयामिष्टिं निर्वपति ।

हुत्वा निर्वपतीति वचनाद्धोतृहोमपार्वणहोमयोरन्वारम्भणीयाङ्गत्वमुक्तमिति भाति तत्र दर्शपूर्णमासावारममाण इत्येव सर्वत्र संबध्यतेऽन्यथा होमयोरपि परस्परमङ्गाङ्गि- भावः स्याद्धोमाविष्टिरन्वारम्भणीया चाऽऽरम्भाङ्गमेवेष्यते । दर्शपूर्णमासावारभंमाण इति चतुर्होतार सारस्वतौ होमौ पुरस्ताज्जुहुयादिति । तथाऽऽग्नावैष्णवमेकादश. कपालं पुरस्तानिपेदिति प्रत्येक दर्शपूर्णमासप्राग्भावितावगमात्तेन प्रत्येकमग्न्युद्धरण यद्याश्वपदिके द्वादश रात्रीोमः समाप्तो होमपूर्वाधाने । तथा सोमपूर्वाधान पवमानह- विःषु जातेष्वनन्तरं द्वादश रात्रीरजस्लेष्वेव होमे सति प्रत्येकमुद्धरणं यदि न होमानां समाप्तिरथ मध्ये घेत्पौर्णमासी तदाऽप्यजनेष्वेवान्वारम्भणीयादिकमिति ज्ञेयम् । ध्यारूपातृभिः कैश्चिदन्यथाऽपि किंचियाख्यातं तद्दूषणे विलम्बभियोपरम्यते । अन्वा- रम्भणीयामिष्टिमन्वार येते प्रारम्यते संस्तूयेते दर्शपूर्णमासौ यनमानाय यया साऽन्वा- रम्भणीया तां निर्वपात करोति ।

आग्नावैष्णवमेकादशकपालꣳ सरस्वत्यै चरुम् सरस्वते द्वादशकपालमग्नये भगिनेऽष्टाकपालं यः कामयेत भग्यन्नादः स्यामिति नित्यवदेके भगिने समामनन्ति ।

अयं सत्यां कामनायां कार्योऽन्यदा विकल्पः । स्पष्टमन्यत् ।

पुरस्तात्स्विष्टकृतश्चित्तं च स्वाहा चित्तिश्च स्वाहेति द्वादशगृहीतेन द्वादश जयाञ्जुहोति ।

गणहोमे यावदाहुतिग्रहणे प्राप्तेऽपि पुनर्वचनं परिसंख्यार्थ त्रयोदश ग्रह्णानि मा भूवन्निति । नयनामकानुपहोमान्दविहोमधर्मेण । न समित्परिस्तरणपरिषेकास्तत्रान्त. गंतत्वात् ।

प्रजापतिर्जयानिन्द्रायेति त्रयोदशीम् ।

पृश्ग्गृहीतेन होम इत्येवमर्थमारम्भः । एतदाज्यं स्थालीगतमिति भाष्यकृतोक्तं मन्त्रापूर्वदर्विहोमत्वेन तूष्णीकं प्राप्तं तदर्थवादः (१) प्रसङ्गप्राप्तेन स्थालीगतेन क्रियत इत्यभिप्रायः । आहवनीय आज्या ध्रुवाया इति परिभाषितं तत्तु दर्शपूर्णमासतन्त्र एव । उपहोमत्वेन च नारिछसाम्यं च ध्रुवायामेव ग्राह्यम् ।

अग्ने बलद सह ओज आक्रममाणाय मेऽदाः । अभिशस्तिकृतेऽनभिशस्तेनयायास्यै जनतायै श्रेष्ठ्यायेति चतुर्दशीं यां जनतां द्वि-