पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३२५ वक्ष्यमाणत्वान्नानुगमनं नोद्धरणं च पवमानहविषां व्यवधानपक्षेऽपि यावदग्निहो. प्रारम्भस्तावदनम्राणामेव धारणमाश्वपदिक एव द्वादश रात्रीोमविधानापरिसमाप्ते चाऽऽधाने मध्येऽग्निधारणमेव यागमध्येऽनुगमने प्रायश्चित्तं प्राप्नोत्येवेत्युक्तम् । ततो द्वादश रात्रीः सायंप्रातोमार्थमपि धारणमिति निर्णय आश्वपदिक एव प्रथमाग्निहो- अस्याऽऽरम्भविधानादविशेषेण सोमाधानेऽवभृथानन्तरं तस्मिन्नेवाग्नावग्निहोत्रारम्भ इष्टि- पूर्वाधानेऽप्यनन्तरमिष्टेः प्रतिपदि रात्रावारम्भः । अग्निहोत्रमारप्स्यमानः सेट्याधाना- नन्तरं रात्रौ चित्तिः गिति मनसोक्त्वा वाचस्पत इति ग्रहमश्रेण सह यथा भवति तथा स्वाहान्तेन दविहोमधर्मेण जुहोति सायमग्निहोत्रस्याऽऽवृता विधिना वक्ष्यमाणे. नेत्यर्थः । मन्त्रेणेति वचनं पूर्व पवमानहविषां तूष्णीमग्निहोत्रं होतव्यमग्निहोत्रं३ ने होतव्यमित्युपक्रम्य तूष्णीमेव होतव्यमिति श्रुतेः । तथा च कात्यायन:-अग्निहोत्रं तूष्णीं श्रुतेरिति । तथा प्रारम्भानन्तरं मा भूदिति मन्त्रग्रहणेन ज्ञापितं प्रथमं सायम- ग्निहोत्रमुपक्रम्यते न प्रातरारम्भ इत्यर्थः। तिसृमिाहतीभिः सायमग्निहोत्रद्रव्यं पश्चा- दाहवनीयमुपसाद्यते । आयुर्मे यच्छेत्येतस्य स्थाने व्याहृतीभिरुपसादयेत् । संवत्सर- स्यान्ते यस्यां तिथौ रात्रावग्निहोत्रारम्भस्तस्यां तिथौ प्रातरग्निहोत्रेऽपि व्याहृतीभिरेवो. पसादनम् । संवत्सरे पर्यागत एताभिरवोपसादयेद्ब्रह्मणैवोमयतः संवत्सरं परिगृह्णातीति संवत्सरस्याऽऽद्यन्तयोर्विधानमुपसादनस्येति वक्तुं परीत्युक्तं तथा च संवत्सरान्तेऽन्ति- मेऽग्निहोत्र इत्यर्थः । सायंप्रातःकालसाध्याग्निहोत्रस्यैकप्रयोगत्वायत्र तिथौ सायमा- रब्धं तस्यामेव प्रातः सांवत्सरिकप्रयोगसमाप्तिस्ततः सायंप्रभृति द्वितीयसंवत्सरारम्म इति ज्ञेयम् । विशेषस्तु याजमाने वक्ष्यते ।

अथ दर्शपूर्णमासयोरारम्भः।

अत्रापि कामनायां पूर्ववदेव संकल्पोऽन्यदा तु दर्शपूर्णमासाभ्यां यक्ष्ये त्रिशतं वर्षाणि यावज्जरसं यावज्जीपमिति वा संकल्पोऽङ्गीकृतस्त्रिंशदादिपर्यक्ष्ये दाक्षायण- यज्ञेन चेत्पञ्चदशेत्यपि ज्ञेयम् ।

दर्शपूर्णमासावारभमाणः पूर्वस्य पर्वण औपवसथ्येऽहनि चतुर्होतारं मनसाऽनुद्रुत्य सग्रहꣳ हुत्वा पूर्णा पश्चाद्यत्ते देवा अदधुरिति सारस्वतौ होमौ हुत्वा ।

आरम्भोऽत्र पञ्चदश्यां भवितेति पूर्वेधुरारममाण इति वचनात्संकल्पेनाऽऽरम्मे सतीति ज्ञेयम् । तथा चाऽऽदौ दर्शपूर्णमाससंकल्पहोमादिकर्म तदर्थ च पुनः संकल्प आरममाणे होण्यामीत्यादि पूर्व पर्व पञ्चदशी प्रतिपदोऽपि पर्वत्वात्पूर्वस्येत्युक्तं तस्या औपवसथ्यमहश्चतुर्दशी तस्यामित्यर्थः । औपवसथ्यं यद्यप्यन्वाधानदिनं तथाऽपि तेन पूर्वदिन लक्षणयोच्यते । पञ्चदश्याः पूर्वदिन इत्येव वक्तव्ये पर्वग्रहणं यागकाल- ना