पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४ सत्याषाढविरचितं श्रौतसूत्र- [३ तृतीयपने-

चत्वार्यतानि तु या गायः षडादिसंख्याकाः स्वरूपमात्रेणोक्तास्तास्वेव चतस्रो निर्दिष्ट. रूपा ब्राह्मणेन तु ताभ्योऽन्या ब्राह्मणे निर्दिष्टरूपाः । अयमाशयः- -ब्राह्मणे ह्या द्वादशभ्यो ददाति काममूर्ष देयमिति श्रूयते तत्रानादिवासोन्तानि पग्निर्दिष्टरूपाणि धेनुर होत्र इत्यादिना धेनुरनड्वांश्च निर्दिष्टौ तथा मिथूनौ ददातोति चत्वारि वस्तूनि । तथा च दश संपन्नानि । तत्र षड्नदातीति श्रूयते तत्रता दशम्योऽधिका अपि त्वादि- ष्टरूपा एव चतन्नः घण्णां मध्ये द्वे अनादिष्टरूपे । तस्माद्राह्मणे द्वादशपूरणार्ये ज्ञेये काममूत्रमिति तु सति वैभवेऽधिकं तस्यैव व्याख्यानं शाखान्तरे द्वादशेत्यादि. करुपेन ता अपि चतस्रो नित्या एवान्या वैकल्पिक्य इति । अर्न पूर्णपात्रमुप- बर्हणमग्नीधे ददात्यश्वं ब्रह्मणे धेर्नु हो। गार्हपत्यदेशेऽनड्वाहमाहवनीयदेशेऽध्वर्यवे शेषो यः स साधारणस्त्रिंशन्माने पूर्वयोः पवमानहविषोहिरण्यं दक्षिणां ददाति । चत्वारिंशन्मानमुत्तमे, अनुनिर्वाप्येषु प्रभूतान्याहार्यो धेनुमादित्ये, एता दक्षिणा ददाति । अत्राऽऽपस्तम्बः-अनादयोऽमीनादधीत काममेकां दद्यात्सा सर्वासां गा प्रत्या- नायो भवतीति । वैखानसस्तु सर्वदक्षिणानां प्रत्यासाय इत्याह । अग्न्याधेयदाक्ष- णानामेवाऽऽमेयेऽन्वाहार्यः पवमानहविष्षु पुरोक्ता एवाऽऽदित्ये चान्येषामन्याहार्य इति ज्ञेयम् । त्रिंशन्मानं [नि]यतादिमिस्त्रिंशता मितसुवर्ण पवमानहविषां तत्र शत- मानमेकं शास्त्रान्तरे दृष्टम् ॥ इत्याधानं समाप्तम् ॥ अथामिहोत्रारम्भः । यजमानः सपत्नीकः प्राणानायम्याग्निहोत्रमारप्स्थमानो दशहोतारं सग्रहं होण्यामीति संकरप्याग्निहोत्रापूर्वादन्यापूर्वप्रयुक्तत्वात् । आलप्स्यमान इति भविष्यकालमग्निहोत्रस्य निर्देशाइशहोतृहोमानन्तरमग्निहोत्रसंकल्प इति ज्ञेयम् । दुत्वाऽग्निहोत्रं सायंप्राताध्यामि यावजीवमिति संकल्पः । सत्यां कामनायां स्वर्ग- कामः पत्नी स्वर्गकामेत्यधिक न वाऽत्र त्रिंशद्वर्षादिविधानं यथा दर्शपूर्णमासयोर्वन- स्थाऽपि तु यस्प्रनजिते निवृत्तिरनधिकारा यथा विधुरे पल्यर्थ प्रबजिते च पत्नी पात्राणि सर्वाण्यरणी च विभृयाद्यावज्जीवम् । कर्मादिष्वेतैर्जुहुयादिति श्रुतेर्भाष्यकार- वचनाचाऽऽहवनीये कूष्माण्डहोमः ।

अग्निहोत्रमारप्स्यमानो दशहोतारं मनसाऽनुद्रुत्य सग्रहꣳ हुत्वा सायमग्निहोत्रस्याऽऽवृता मन्त्रेण सायमग्निहोत्रं जुहोति व्याहृतीभिः प्रथ- ममग्निहोत्रमुपसादयति तथा संवत्सरे ।। १२ ।।

वक्तव्यमन्ययाजमाने वक्ष्यति तथाऽपि पावमानेष्टीना सानुनिर्वाप्याणां समाप्त्य. नन्तरमग्निहोत्रारम्मो मन्त्रेणेति च द्वयं विधातुं प्रथमारम्भेऽपि काममन्यो जुहुयादिति वक्ष्यमाणत्वादावर्यवे पाठः । उद्धरणपक्षेऽपि द्वादश रात्री(ध्वेवामिषु होम इति