पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

है ६५०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३२३ यानमाने वक्ष्यन्ते । यदा सद्यः पवमानहवींषि तदाऽऽग्नेयेन समानतन्त्रता नान्यदाऽऽ. मेयस्य कालान्तराभावात् । सिद्धमिष्टिः संतिष्ठते ।

अग्नीषोमीयमेकादशकपालमनुनिर्वपत्याग्नावैष्णव- मेकादशकपालमैन्द्राग्नमेकादशकपालमदित्यै घृते चरुं विष्णवे शिपिविष्टाय त्र्यु( त्र्यृ)द्धौ घृते चरुं सप्तदशाऽऽदित्यस्य सामिधेन्यो भवन्त्यादित्यस्येडाभागं ब्रह्मणे परिहृत्य सर्वे प्राश्नन्ति तथा चातुर्धाकरणिकानि ।

पञ्च हवी५षि समानतन्त्राणि पवमानहविषामनुनिर्वाप्यानि । ब्युद्धौ तिस्त्र द्धयो यस्य पात्रस्य तस्मिन्पात्रे घृते । ऋद्धयः परित उन्नतता । सप्तदश सामिधेन्यो नियताः । पौर्णमासं तन्त्रं मुख्यात्वादयस्त्वाच्च । आदित्यस्य चरोरिडामागप्राशनं पृथ- गेव ब्रह्मणो विधीयत इति । नान्यस्य भक्षणं तदर्थ तत्परिहृत्य पृथगिडायां स्थापयित्वा तथा चतुर्धाकरणमागोऽपि ब्रह्मणे पृथगेव तस्यापि चतुर्धाकरणसमये सर्वमादित्यं ब्रह्मार्थ प्रथम एव भागे निदध्यादिडाप्राशनं तत्सर्वं सहैव सर्वे प्राश्नन्तीति वचनात्काले। अत्र याजमानं व्याख्यायते दक्षिणार्थम् । आग्नेयस्य दक्षिणाकालेऽनं पूर्णपात्रं सार्वसूत्रमश्वं स्थं वासः षट् च गा द्वादश चतुर्विशतिमपरिमिता वा वर्धमाना वा ददाति । पूर्णपात्रमिति रूढः पुष्कलचतुष्टय(लाष्टक) संमितो ब्रीह्यादिः ।

अष्टमुष्टि भवेत्किंचित्किंचिदष्टौ तु पुष्कलम् । पुष्कलैरष्टभिश्चैकः पूर्णपात्र उदीरितः ॥

उपवर्हणमुपधानं तत्सार्वसूत्रमित्यनेकवर्णसूत्रैनियतमुपवर्हणम् । स्पष्टान्यन्यानि । तासां धेनुरनड्वान्मिथुनौ चाऽऽदिष्टरूपाणि । आग्नेयस्य दक्षिणाऽन्वाहार्यस्तत्समये ततः पूर्वमित्यर्थादग्न्याधेयदक्षिणा इति क्रमोऽत एव बौधायनवैखानसौ-आग्नेयस्या. न्वाहार्यमासाद्यान्याधेयस्याऽऽद्वादशभ्यो दक्षिणा ददातीति । तमासादितस्यान्याधेय- दक्षिणाभ्योऽनन्तरं ददातीत्युक्तम् । अवश्यमन्वाहार्यपचनं कार्यमन्यथाऽऽधान- सिद्धिर्न स्यात् । यदन्वाहार्यपचनेऽन्वाहार्य पचन्ति तेन सोऽस्याभीष्टः प्रीत इत्यभि. धानात् । तासां षडादिसंख्यानां गवां मध्ये धेनुर्धयन्ती वत्समथाऽऽकर्षति वर्धमाना इत्युक्तम् । उत्तरोत्तरमुपयोगं गच्छन्तीर्देया इत्युक्तत्वाद्विना वत्सं वर्धमानत्वामावा- ल्लिङ्गं च क्रये नव द्रव्याणि विधाय दश संपद्यन्त इत्याह । तत्र धेन्वा क्रीणातीति वत्सोऽप्यनुकृष्टो विज्ञायते । अनः शकटं तेन वाही बलीवर्दः स्त्रीपुंसौ गावौ मिथुनौ

१ ख. त्र्यद्धौ।