पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२ सस्याषाढविरचितं श्रोतसूत्रं- [श्तृतीयपने-

मुक्तं सम्यावसथ्याधानाङ्गविषयमिति गम्यते । यत्समायां वि० ते । तेन सो० तः । यदावसथे० प्रीत इति श्रुतेश्च । तदमावे तु नैतत्कर्म ।

कल्पेतां द्यावापृथिवी येऽग्नय इति यथर्तु क्लृप्तिसामनसीभ्यामग्नीनुपतिष्ठते ।

सनता इति प्रथमस्यान्तः । विशन्विति द्वितीयस्य । कृप्तिसामनस्यौ नाम । कथ- मुपस्थानं तत्राऽऽह यथर्तुं यस्मिन्नतावाधानं स एव शैशिरावित्येतत्पदस्थाने प्रयो- क्तव्यः । अन्तरा द्यावापृथिवी वासन्तिकावृतू अभिकल्पमाना इति । अग्नय इति बहुवचनश्रवणादार्हपत्यस्य पश्चादयस्थाय सर्वान्सकृदेवोपतिष्ठते ।

प्रोक्षणप्रभृतीन्याग्नेयस्य कर्माणि प्रतिपद्यते सिद्धꣳ संतिष्ठते ।

सिद्धं प्रकृतौ सिद्धं सतिष्ठते समाप्यते । दक्षिणास्तु याजमाने व्याख्यास्यन्ते ।

पवमानहविभिर्यजते संवत्सर ऋतौ मासेऽर्धमासे द्वादशाहे चतुरहे त्र्यहे द्व्यहे श्वोभूते सद्यो वा ।

यह इत्युक्त्वा पुनः श्वोभूत इति वदता यहे व्यतीत इत्युक्तम् । तद्वत्संवत्सरेऽ- तीत इत्यपि ज्ञेयम् । बौधायनो द्वादशसु व्युष्टास्वित्याह । पवमानसंज्ञकैः । स्पष्टम् ।

सोमेन यक्ष्यमाणस्याऽऽदधानस्य पवमानहविषां सांवत्सरिकः कल्पः ।

सोमपूर्वाधाने तु पूर्वोक्ता विकल्पा न भवन्त्येव किं तु सोमेनेष्ट्वा संवत्सरान्ते पवमानविभिर्यजते । अत्राऽऽपस्तम्बमते विकल्पः-निर्वपेदित्येके यदि निर्वदग्नये पवमानायाग्नये पावकायाग्नथे शुचय इति तिस्त्र आज्याहुतीः सोमदेवताभ्यो वा हुत्वा निषेदिति । प्राक्पवमानहविर्यः सायंप्रातरग्निहोत्रं न होतव्यमिति न्यायविदः सूत्रकृतां मतमिति ।

अग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपेदग्नये पावकायाग्नये शुचये ।

निपेदष्टाकपालमिति चानुवर्तते ।

समानबर्हिषि नानाबर्हिषि वा ।

बहि:समानत्वेनैकतन्त्रता लक्ष्यते । समानतन्त्राणि नानातन्त्राणि वेत्यर्थः ।

प्रथमं वा निरुप्योत्तरे समस्येद् ।

अग्नये पवमानाय पृथनिरुप्याग्नये पावकायाग्नये शुचये च समस्येत्समानतन्त्रेण निर्वपदित्यर्थः।

आग्नेयेन वाऽष्टाकपालेन समानतन्त्राणि कुर्यात् ।

पूर्वोक्तेन सहैतानि त्रीणि मिलित्वा चत्वार्यपि समानतन्त्राण्येव कुर्यात् । दक्षिणास्तु