पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ५५०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ३२१

संहत्य प्रथायित्वा प्रसार्य तेषु हिरण्यं स्थापयित्वा ब्रह्मयजमानयोरग्रेण गत्वा स्थितः । परिस्तरणपरिषेको न समित् । दर्विहोमधर्मेण जुहोति । सुक्रतुः स्वाहेति मन्त्रान्तः । वरुणो देवता।

आवसथे मध्ये परिषदो हिरण्यं निधाय प्रनूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् । यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकाꣳसि चक्रिर इति जुहोति ।

पूर्ववन्मत्रोक्ता देवताः । भावसथो(थ उक्तशाला । ब्रह्मयजमानयोरप्रेण गत्वा. स्थितयोदक्षिणतः।

उत नोऽहिर्बुध्नियः शृणोत्वज एकपात्पृथिवी समुद्रः । विश्वे देवा ऋतावृधो हुवानाः स्तुता मन्त्राः कविशस्ता वहन्त्वेना राजन्हविषा मादयस्वेत्यावसथमभिमन्त्र्य ।

गतम् ।

शतमक्षान्यजमानाय प्रयच्छति ।

विभीतकान् ।

तेषु कृतं विजित्य ।

तेष्वक्षेषु कृतं पणं मो(१) यनमाने विजित्य तत्कृतं विजयते । न्युप्तेष्वक्षेषु चतु. कशो विभज्यमानेषु यत्र सर्वे भागाः समा भवन्ति स द्यूतप्रकारः कृतमित्युच्यते । यत्र त्रयोऽधिकाः स त्रेता। यत्र प्रवन्धिको स द्वापरः । यत्रैका स कलिरिति तस्य प्रकारास्तत्र कृतं विजयत इत्यर्थः । इदं याजमाने वक्ष्यमाणमनूदितम् । तत्रो. क्तम्-कृतं विनित्य समासभ्यः प्रयच्छति ते यज्जयन्ति तदुभयमन्नं संस्कृत्य ब्राह्मणान्भोजयित्वेति ।

सभासद्भ्यः प्रदीयमानेषु व्रीहिभ्यो गां दीव्यताहिꣳसन्तः पर्वाणि विशसतेति संप्रेष्यति ।

यजमानेन प्रदीयमानेष्वक्षेष्वध्वर्युः प्रतितिस्त्व(?)न्ययाजमान एवोक्तम् । ब्रीहि भ्यः प्रयोजनभूतेभ्यो गा दीव्यत पणं कुरुतेति कितवानाह । तथा तां गामसंज्ञपय- न्तोऽवयवान्विशसत पृथक्पृथक्कुरुत जीवन्त्या एवाङ्गानि तवेदं ममेदमेवंप्रकारेण विभ. जतेति लक्षणयोच्यते । इदं कर्म राजन्यस्य यजमानस्य । तथैव वैखानसापस्तम्त्राभ्या- - १ क. ख. ग. च. छ. ट. उ. ण. दि हि। २ ग. , ङ. ज. इ. स. ढ, दो मित्रो वरुणो अ।