पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०४ सत्याषाढविरचितं श्रौतसूत्रं- [३तृतीयप्रक्षे-

बध्नाति शिल्पैरेताꣳ रात्रिं यजमानं जागरयन्ति ।। ४ ।।

इति हिरण्यकेशिसूत्रस्य तृतीयप्रश्ने द्वितीयः पटलः ।

कल्माषः श्वेतः कृष्ण आयतनसंस्कारार्थम् । शिल्पैगीतवाद्यादिभिः । तदुक्तमाप. स्तम्बेन-वीणातूणपणवै गरयन्तीति । शल्कैरग्निमिति याजमान शिक्षौरेतां रात्रि जागतीत्यविच। इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैज- यन्त्यां तृतीयप्रश्ने द्वितीयः पटलः ॥२॥

3.3 अथ तृतीयः पटलः ।

ततः संभारानाहरति वैश्वानरस्य रूपमित्येतैर्यथारूपम् ।

यधारूपं यथालिङ्ग वैश्वानरस्येत्यादिमन्त्राणां यावतां यादृशं रूपं प्रतिपाद्यमस्ति तावतः संमारान्सभारनामका-पदार्थान्सनियन्तेऽग्नयो येषु ते संभाराः । अन्यत्र सर्वत्र बाह्मणपठिताना मन्त्राणां पाठेन विनियोगेऽपि प्रकृते लिङ्गमात्रेण विनियोगोऽस्य ब्राह्मणस्य स्वशाखात्वं दर्शयितुम् । पूर्व सर्वत्र पाठेनैव मन्त्रा विनियुक्तास्ततो नेदं बाह्मणमस्मच्छाखागतमिति शङ्का तामपनेतु लिङ्गमात्रेण विनियोगा आदिप्रतीकेन । पूर्व प्रतीकानुपादानमस्य ब्राह्मणस्य विकल्पप्रदर्शनार्थम् । एतस्याः संहिताया विक- पेन नाना ब्राह्मणानि सन्तीति तन्मध्यगतमिदं ब्राह्मणमिति प्रदर्शितम् । अत एवं कचिदेताह्मणमन्त्रांस्त्यक्त्वाऽन्यब्राह्मणमन्त्रान्दर्शयति । तत्रापि ते वैकल्पिका इति ज्ञापितं भवति । वैश्वानरस्य रूपं पृ० तु न इति मन्ने यद्यपि सिकताशब्दो नास्ति तथाऽपि ब्राह्मणे क्रमेण सिकता निवपति एतद्वा अग्नर्वैश्वानरस्य रूपमिति लिङ्गम- न्येषां मन्त्राणां स्पष्टं लिङ्गमास्ति । ततोऽयं प्रथमः प्रथमस्य संभारस्य प्रकाशक इति लिङ्गासिकतासु विनियोगो ब्राह्मणानुसारेण ज्ञेयः । आहरणमायतनसमीपे 'प्रत्येक मन्त्रोऽत एव चिन्मन्त्रद्वयमपि ब्राह्मणेन दर्शितं रूपं मन्त्रद्वयं प्रकाश्यमतो द्वयस्यैक एव मन्त्र इत्यपि ज्ञेयम् । वैश्वानरस्येति सिकताः । यदिदं दिव इत्यूषान् । उती कुर्वाण इत्यारवत्करम् । उनै पृथिव्या इति वल्मीकवपाम् । प्रजापतिसृष्टानामिति सूदम् । यस्य रूपमिति वराहविहतम् । यत्पर्यपश्यदिति पुष्करपणम् । याभिरह- दिति शर्कराः । अग्ने रेत इति रजतम् । सूष्णीं सुवर्णशकलानि अश्वो रूपमित्य श्वत्थः । ठर्नः पृथिव्या इत्यौदुम्बरम् । गायत्रियेति देवानामिति द्वाभ्यां पलाशम् । यया त इति शमीम् । यत्ते सृष्टस्येति वैकङ्कतम् । यत्ते तान्तस्थेत्यशनिहतम् । यं त्वा सम. मरनिति संभृत्य सह निदधाति । ततः संस्कृत्य ।