३तः पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।
जातवेदो भुवनस्य रेत इह सिञ्च तपसो यज्जनिष्यते । अग्निमश्वत्थादधि हव्यवाहꣳ शमीगर्भाज्जनयन्यो मयोभूः । अयं ते योनिर्ऋत्विय इति द्वाभ्यां ब्राह्मौदनिक उपव्युषमरणी निष्टपति ।
उपव्युषमुषःकालश्चतस्रो घटिकास्ततः पूर्व व्युष उप नितरां तपति तापयतीत्यर्थः । सकर्मकस्य प्रयोगः ।
दोह्या च ते दुग्धभृच्चोर्वरी ते ते भागधेयं प्रयच्छामि ताभ्यां त्वादध इत्यरणी यजमानाय प्रयच्छति ।
स्पष्टम् । मही विश्पत्नीति यजमानः प्रदीयमाने प्रतीक्षते । आरोहतमिति प्रतिगृ- हाति । ऋत्वियवती स्थ इति प्रतिगृह्याभिमन्त्रयते ।
मयि गृह्णामि यो नो अग्निरिति द्वाभ्यामात्मन्नग्निं गृहीत्वा ।
आत्मनि गृहीत्वा स्थापयित्वा । उभावपि जपतो मन्त्री विशेषस्तु भावनाऽमेः स्थापनस्य।
अग्नी रक्षाꣳसि सेधति शुक्रशोचिरमर्त्यः । शुचिः पावक ईड्य इत्यभिमन्त्र्यानुगमयति ब्राह्मौदनिकम् ।
ब्राह्मौदनिकमभिमन्व्येति संबन्धः । पश्चाच्छान्ति प्रापयति । इदमहमन्तादिति मन्त्रं जपित्वा यजमानो वाचं यच्छति ।
प्राचीनं ब्राह्मौदनिकाद्गार्हपत्यायतनमुद्धन्ति ।
प्रतिज्ञेयं प्रारभागेऽगार एव । उद्धनने खननम् । गार्हपत्यायतनामिति सिद्धवरनु- वादात्पूर्वमेव शौल्वेन विधिना कृतम् ।
उद्धन्यमानमस्या अमेध्यमप पाप्मानं यजमानस्य हन्तु । शिवा नः सन्तु प्रदिशश्चतस्रः शं नो माता पृथिवी तोकसातेति ।
उद्धन्तीत्यनेनेत्यर्थः ।
दक्षिणतः पुरस्ताद्वितृतीयदेशे नेदीयसि गार्हपत्यस्य दक्षिणाग्नेरायतनम् ।
दक्षिणपूर्वयोरन्तराले व्यतीतम्तृतीयस्तृतीयो मागो यस्य पूर्वीपरान्तरालदेशस्य तस्मिन् । नेदीयसि अतिसमीपे गार्हपत्यस्य । स एवंप्रकारः शुल्वेन दर्शितः ।
- सूत्रपुस्तकेषु गृहीत इति विद्यते ।
१ क. ग, ण.'त्यागाईपत्याप।