पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. २द्वि पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।। २२९

मासयाजित्वं चेति कश्चिद्वक्ष्यत्याचार्यस्ततस्तु साक्षादाहिताग्नित्वे संपन्नेः तद्भक्तिरू- पस्य नानुकल्पस्यानुष्ठानमिति । तत्र नित्यमत ऊमिति नित्यं सायं प्रातहि- मिर्यवेति नित्यग्रहणनिवृत्तिरिति सत्याषाढमतम् । अन्येषां स्मार्तानां कर्मणां तु तत्रैव कर्तव्यत्वम् । सर्वाधाने तु लौकिक एवं कर्तव्यतामाहुः फलार्थानां नियतानामङ्गभूतस्यामेरमावे यथाऽवकीणिनो ब्रह्मचारिणो गर्दभपशुबन्धेऽमीना लौकि- कानामेव ग्रहणम् । विधुरवल्लौकिक एवं कर्तव्यता न लोपः । वचनादिति पूर्वेण वैषम्यं तत्र मनुनाऽनौकरणहोमस्य दक्षिणानावपि विधानात्तथा कार्य मासि- कादावष्टकाहोमो लौकिक एव तस्याग्नौकरणशब्दवाच्यत्वाभावात् । यावदरणी निष्ट- पति तावदौपाप्सन पार्वणी च बाझौदनिक एवानुगमने तु पुनरौपासनमुत्पाद्य तमाद- धाति, तस्याद्यापि गाई पत्याद्यवस्थानापन्नस्यास्त्येवोपासने प्रवेश इति सर्व न्यायतोऽ. वगन्तव्यमर्धाधाने पिण्डपितृयज्ञः पूर्वमौपासन आरब्धोऽपि सेष्टयाधानानन्तरं दक्षिणा- नावेव | धानापवर्गात्पूर्व तु लोपे प्रायश्चित्तमेव । प्रकृतमनुसरामः-ततः परं ब्रौ- दनहोमार्थ पात्राण्यासादयति । तत्राऽऽदौ परिस्तरणं दक्षिणतो ब्रह्मयजमानयोः सदने उत्तरेण ब्राझौदनिकमाग्नं दर्भान्संस्तोर्य पात्राणि प्रयुनक्ति दवौं समिधमाज्यस्थाली- मग्निहोत्रहवी चरुस्थाली मेक्षणं शूर्प कृष्णजिनमुलूखलं मुप्तलं लोहितमानडुई चर्म पानकं वा चित्रियाश्वत्थस्य तिनः समिधो निर्वपणार्थ शरावाणि तथोद्धरणार्थ चत्वा- युपवेषकाष्ठं चेति प्रयुज्य ।

निशायां ब्रह्मौदनं चतुःशरावं निर्वपति ।

निशायां रात्रेः पूर्षि ब्रह्मणो देवतायाः संवन्ध्योदनो ब्रह्मौदनस्तमुद्दिश्य निर्व- पति । तस्य परिमाण चतुःशराव इति शरावं यद्यपि पात्रविशेषस्तथाऽपि तस्यौदन- प्रकृतिद्रव्यत्वं न संभवतीति तेन परिमितं धान्यमुक्तं योग्यत्वात् । तथा चतुरो मुष्टोनिर्व पतीति मुष्टिशब्देन मुष्टि परिमित धान्यमुच्यते । तथाऽपि पात्रस्य परिमाणा- नवगमात्पुनर्धान्यं तु न परिच्छिन्नं स्यात् । ततस्तु रूढयाऽत्र शरावशब्देनैकस्य मोज- नपर्याप्तौदनप्रकृतिधान्यमत्र ज्ञेयम् । तस्य चतुर्वारं निर्वाणोपादानं वक्ष्यति । तत्तु प्रसिद्धयाऽग्निहोत्रह्वण्या मुष्टिमानधान्योपादानं न संभवति बहुत्वाद्र्व्यस्थ । तस्माद्भो- जनपर्याप्तौदनप्रकृतिधान्यग्रहणसमर्थ शरावपात्रमेवाग्निहोत्रहवणीस्थाने ग्राह्यम् । तादृशे- न चतुर्वारमुप्तधान्यस्यौदनश्चतुःशराव इति हि निर्णयः । चतुष्प्राश्यमोदनमिति कात्या- यनोक्तेश्चतुर्यो भोजनपर्याप्त इत्यवगम्यते । स ब्रह्मशब्दाभिधेयब्राह्मणदेवताप्राश्योऽ- यमोदन इत्यवगते प्राशनं प्रधानम्। चत्वार आर्षेयाः प्रानन्तीति सार्थवादश्रुतेश्च । होमस्तु तत्संस्कारस्तस्य विस्मरणे न पुनः क्रियेति। अत्र निर्वपतिना न यागानुमानं प्रत्यक्षेणात्र प्राशनमात्रस्य विधानादपूर्व कदै निर्वापस्य चतुःशरावसंबन्धाच्चतुरि शरावेण मितं 1