पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. सत्याषाढविरचितं श्रौतसूत्र- [३ तृतीयप्रो- द्रव्यं निर्वपति न हि पात्रस्य निर्वापो भवति । यद्यपि संख्या पात्रगता श्रूयते तथाऽपि द्रव्यपरिच्छेदस्यान्यतोऽसिद्धेव्यपरिच्छेदाथैत्र । आग्नेयमष्टाकपालं निर्वपतीत्यादी चतुरो मुष्टीनिर्वपतीति परिच्छेदकस्य श्यमाणत्वाकपालानां पाकसंवन्धः । अस्य ददि. होमत्वान तथा । चतुर्भिः शरावैः संस्कृतो निर्वापेण स ओदनश्चतःशरावः । एकेन शरावेण चतुर्यारं निरुत इति यावत् । अथ यदि चतुर्प शरावेषु पाकस्तदा संस्कृत भक्षा इति सूत्रेणाटाकपालवदुपपद्यते । तदने स्थाल्यां सर्पिप इति न युज्येत । मत. श्चत्वार्यदपूर्णानि पात्राणि स्थापयामानीय तत्र पाक उदकपाकपक्षे । अत एव वैखान- सेनोक्तम् --चतुःशरावं निर्वपतीत्युपक्रम्य चतुःशरावस्तण्डुलानावपतीति । उक्तमा- वपनकाले प्रवृत्तिनिमित्तं संपादितमाचार्यमते तु निर्वपणे पाकोदके वेति ज्ञेयम् ।

रोहिते चर्मणि पाजके वा ।

रोहितं लोहितं धर्म तदानडुहमेवेति सूत्रान्तरे शकटवाहिनश्चर्मेत्यर्थः। पौनकं पानं महानसोपकरणं पटछकशब्दवाच्यं वंशपात्रविशेषः । तत्र शरावेण गृहीत्वा निर्वपति । तत्प्रकारमाह-

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां ब्रह्मणे प्राणाय जुष्टं निर्वपामि ब्रह्मणेऽपानाय ब्रह्मणे व्यानाय ब्रह्मण इति चतुर्थम् ।

निर्वपतीति चतुर्थे केवलं ब्रह्मणे निरुपपदाय । जुष्टं निपामोत्यनुषणः सर्वत्र ।

अवहत्य पयसि चरुꣳ श्रपयति ।

यथार्थमवहत्यैकस्यामेव स्थाल्यां दुग्धे चरुं श्रपयति ।

चतुर्षु वोदपात्रेषु ।

पयसा सह चतुर्णामुदपात्राणां विकल्पो न स्वश्रुतया स्थाल्या । ततस्तु स्थाल्यां चतुर्पु पात्रेषदकयुक्तेषु निहितेषु सत्सु चतुर्वारं पात्रेण स्पाल्यामानीयोदकं तत्र श्रपयति ।

न निर्णेनेक्ति ।

न प्रक्षालयतीत्यर्थः।

नावसिञ्चति ।

उदकं तण्डलेषु रेचितं तन्न प्रस्त्रावयति न त्यजतीति यावत् । .

  • चमिति पदं सूत्रपुस्तकेषु नास्ति ।

५क, स्व. च... स्यात् । १ ख. पाचके ! ३ क, ख, ट. पाच ।