पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्रं- [३ तृतीयप्रश्ने-

गृहेषु यायावरः।

यात्राशीलो यात्वा यात्वा वृत्ति संपाद्य जीवति सोऽपि धर्मशास्त्रलक्षितो ज्ञेयः । स तु यत्र तिष्ठति गृहेषु तेष्वेव शाला संपाद्याऽऽदधीत । अथ यजमानस्य वपनं दतो धावते नात्यहतं वासः परिधत्ते वपनवनं पत्न्या अपि, भोजनमध्यनयोः शास्त्रान्तरे दृष्टम्।

उदीचीनवꣳशा शाला ।

कर्तव्येति शेषः । अत्राऽऽपस्तम्बेनोक्तमन्यदाहवनीयस्यागारमन्यद्गार्हपत्यस्येति । अत्रास्मदाचार्येण न विशेषोऽभिहितस्तथाऽपि यानमानेऽगारद्वयमुक्तम् । सम्यावसथ्य योरगाराह हिरेवाऽऽयतने बायत इतरयोरिति वक्ष्यति । एकां शालां कुर्याद्यावता शालायाः प्रारभागे ब्राह्मौदनिकगार्हपत्यदक्षिणान्यायतनानि भवन्ति । शालायाः पश्चिम- मर्धे तु सर्वेषामवस्थानार्थ संभारादिपदार्थस्थापनार्थमिति गम्यते । तथैवोक्त बौधायने. तु नापि देवयननेऽगारमपरिमितं भवति तस्य द्वे द्वारौ कुर्वन्ति प्राची दक्षिणां च मध्ये गार्हपत्यस्याऽऽयतनं कुर्वन्ति पुरस्तादादशसु विक्रामेष्वावनीयायतनमिति ।

तस्याः पूर्वेण मध्यमं वꣳशमधिवृक्षसूर्य औपासनाद्ब्राह्मौदनिकमादधाति ।

तस्याः शालाया यो मध्यमो वंशस्तस्याधस्ताद्भागस्य पूर्वेणारेऽद्रे स्थले बाझौद. निकमादधातीति संबन्धः । तस्या एव प्रतीतत्वेऽपि तस्या इति विशेषणमन्यस्या मा भूदिति । तेनाऽऽहवनीयागारत्वेन द्वितीयाऽपि शाला ज्ञापिता भवति । सा च प्राग्वं- शोदग्वंशा वा प्राग्वंशा द्वितीया कात्यायनेनोक्ता । वृक्षानधिकृत्य नाधस्तान्नोपरि- ष्टात्सूर्यस्तिष्ठति स कालोऽधिवृक्षसूर्य इत्यर्थः । औपासनानेरेकदेशं गृहीत्वा तस्मिन्स्यले स्थापयत्ति तूष्णीमेव । बाझौदनः पच्यतेऽस्मिन्निति भाविनी संज्ञा तम् । भोपासनाने सकाशादेकदेशमुद्धृत्य प्रागुक्तस्थ तमग्निमादधाति स्थापयति । सर्वं वौपासन- मित्यापस्तम्बः । सर्वाधानपक्षे सायंप्रातःकालोपासनहोमी पार्वणस्थालीपाक इत्येतानि लुप्यन्ते न प्रतिनिधिनाऽग्निना लौकिकेन कार्याणि नित्यत्वेन प्राप्तस्य द्रव्यस्याभावे प्रतिनिधिः । न चौपासनाग्निरस्ति गाई पत्यादिरूपेणावस्यान्तरप्राप्तौ पूर्वस्वरूपस्याभाव एवाऽऽत्यन्तिकः । किं च नानेः प्रतिनिधियायेनेत्येव वदिष्यति । यदा पुनराधान तदा निर्मन्थ्यमेवाऽऽदधीत ब्राह्मौदनिकं न तु पुनरौपासनोत्पत्तिथा धार्थ आहवनीयो न गार्हपत्यमागच्छत्यनुगत एवं गार्हपत्यत्वेन धृतो न पूर्वयोनि प्रत्यागच्छति योनेर- भावादेवार्धाधानेऽप्ययं न्यायः समान एव तदाऽप्युत्पत्तिनिर्मन्थ्यादेवेति निर्मन्ध्या- धानमप्यापस्तम्वेनोक्तम् । प्रकृतमनुसरामः- केचिदर्धाधाने पार्वणतायंप्रातोमान्ने- च्छन्त्य!पासने । कुतः । तस्यौपासनेनाऽऽहिताग्नित्वं तया पार्वणेन चरुणा दर्शपूर्ण 7