पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९४ सत्याषाढविरचितं श्रौतसूत्रं- [ ३ तृतीयप्र-

धिनी । अरणीशब्दोऽग्निमन्थनकाष्ठे प्रसिद्धो न संस्कारवचनः । द्वयोरप्येकवदेव सकृन्मन्त्रेणाऽऽहरणम् । मन्त्रे हरामीति लिङ्गात् । अश्वत्थस्योद्धृते उगृहोते वाऽरणी हरति संसृष्टद्रव्यत्वातं ते इति तमश्वत्थमेवारणीरूपेण हरामीति मन्त्रार्थप्रतीत सहैव गृहीत्वा मन्त्रेण सहैव नयति । अत एवाऽऽपस्तम्बेनोक्तमाहरतीति । तथाऽऽहरेदित्ये- वाऽऽह भरद्वाजोऽपि ।

अपि वाऽश्वत्थादेवोद्धरेदियं वै शमी तस्या एष गर्भो यदश्वत्थ इति विज्ञायते ।

अथ वा केवलादेवाश्वत्थादुद्धरेत् । मन्त्रलिकोपपत्त्यर्थ श्रुतिमुदाहरतीय वा इति ।। इयं प्रसिद्धा पृथिव्येव शमी तस्या एष गर्भ इति श्रुतिव्याख्यानात्केवलाश्वत्थारण्यो- रपि मन्त्रो न विरुध्येत।

अश्वत्थाद्धव्यवाहाद्धि जातामग्नेस्तनूं यज्ञियाꣳ संभरामि ।. शान्तयोनिꣳ शमीगर्भमग्नये प्रजनयितव इति संभरत्यायुर्मयि धत्तामायुर्यजमान इति संभृते अभिमन्त्रयते ।

संभरति गृह्याग्निशालायां स्थापयति । पूर्ववत्तन्त्रेणाभिमन्यते तत्रैक ।।

कृत्तिका रोहिणी मृगशीर्षं पुनर्वसूफल्गुन्यौ हस्तश्चित्रा विशाखे अनूराधाः श्रोणा प्रोष्ठपदाश्चोत्त रेऽग्न्याधेयनक्षत्राणि कृत्तिका ब्राह्मणस्योत्तरे फल्गुन्यौ चित्रा च राजन्यस्यावशिष्टानीतरेषाम् ।

कृत्तिकाः स्त्रीलिङ्गबहुवचनान्तेनैकमेव नक्षत्रमनराधाः प्रोष्ठपदाः पुनर्वसू पुंलिङ्गाः- (ौ) फल्गुन्यौ विशाखे स्त्रीलिङ्गे स्पष्टान्यन्यानि । कृत्तिका एव ब्राह्मणस्य । अभि- पिक्तः क्षत्रियो राजन्यस्तस्य पूर्व तु निरुपपदफागुन्याविति पूर्वयोः फल्गुन्योरुत्तरयो. रपि ग्रहणं सामान्यमात्रविवक्षया द्विवचनान्तेनैव । तथा च नित्यानि काम्यानि चैतान्येव नक्षत्राणि तान्यम्याधेय इत्यर्थः । अवशिष्टानि त्रिभ्योऽन्याधाननक्षत्राणि येषां वैश्यनिषादरथकाराणामाधानं तेषामेवाविशेषेणाऽऽधाननक्षत्राणि । ऋतुमासकाला- भिधानपूर्वकनक्षत्रविशेषकालाभिधानं कार्य तथाऽपि पाठक्रमानुसारेणैवं कृतम् । अत्र ब्राह्मणादिविशेषोपादानेऽपि नोत्तरत्र तदनुवृत्तिविहितेष्वेव कामार्थताऽपि । काम्येषु विशेषाश्रवणात्माप्ताधानानां सर्वेषामेवाऽऽह-

सर्वेषां तु काम्यानि ।

ब्राह्मणादिनिषादान्तानां काम्यानि समानान्येव । , १. ग च, उ.ण "पि कि का।