रद्विः पटलः] महादेवकृतवैजयन्तीव्यास्यासमेतम् ।
तान्येवाऽऽह--
कृत्तिकास्वग्निमादधीत यः कामयेत मुख्यो ब्रह्मवर्चसी स्याम् ।
उत्कृष्टं ब्रह्मवर्चसमध्ययनाध्यापनादिना वर्चस्तेजस्तद्वान्भवेयमिति कामः । तत्र दोषमाह-
कामं तु मेऽग्निर्गृहान्दाहुकोऽस्त्विति ।
ब्राह्मणे दृष्टो दोषो गृहदाहः स चेद्भवेद्भवतु परं तु फलं मे भूयादिति य एवं फलं कामयते स आदधीतेत्यर्थः । नित्ये तु न दोषः । कुतः, अस्मच्छाखायां फल- वाक्य एव दोषश्रवणात् । शाखान्तरे तु ब्राह्मणस्य नित्यविधौ दोषस्याश्रवणादिति दर्शयितुं फलवाक्य एव तथोक्तो दोषो दर्शितः । नच ब्राह्मणे कामपाश्रवणमिति न काम्यमिति शाखान्तरे समाननातीयेषु कामपददर्शनादत्रार्थवादेन फले कल्पिते समा- नातेव।
रोहिण्यां यः कामयेत सर्वान्रोहान्रोहयेयमिति ।
रोहानुच्छ्यान्प्रजापशुधनादिकाभिवृद्धीः ।
मृगशिरसि यः कामयेत श्रीमान्स्यामिति ।
स्पष्टम् ।
यः पुरा भद्रः सन्पापीयान्स्यात्स पुनर्वस्वोः ।
पूर्वमनेककल्याणवांस्ततोऽपकर्षगतस्तस्यापकर्षस्य परिहारायेत्यर्थः ।
यः कामयेत दानकामा मे प्रजाः स्युरिति स पूर्वयोः फल्गुन्योः ।
प्रजा दातारो लोकास्तेषां मह्यं दानं दास्याम इति कामा भवन्विति यः कामयते सः ।
यः कामयेत भगी स्यामिति स उत्तरयोः ।
फल्गुन्योः । भगोऽधिकलक्ष्मीः ।
विपरीतमेके समामनन्ति ।
पूर्वयोर्यरफलं तदुत्तरयोर्यदुत्तरयोस्तत्पूर्वयोरित्यर्थः ।
हस्ते यः कामयेत प्र मे दीयेतेति ।
में मह्यं प्रदीयतेति कामः पूर्ववत् ।
चित्रायां भ्रातृव्यवान् ।
गतम् ।
विशाखयोः वै प्रजाकामः ।
गतम् । क. ख. ग. छ. द. ठ, ण, स्यामिति ।