पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९१ . द्वि० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

त्रयोदशामुलैः सार्धर्मितरज्ज्वा तु मण्डलम् । अरनिमितो यद्वा पूर्वाग्नेराखरो भवेत् ॥ चतुरश्रं समं कुर्यात्तत्प्रकारोक्तयाऽऽवृता । भोणीऽऽहवनीयं तु मुक्त्वाऽरत्न्यन्तरालकम् ॥ सभ्यागारं भवेत्तत्प्राक्तावदेवान्तरालकम् । मुक्त्वाऽऽवस पायतनं कुर्यादाहवनीयवत् ॥ दक्षिणाग्नेमध्यशङ्कोरुदद्वादशभिस्तिलैः । युतेऽङ्गुलद्वये शकुमादिशेन्मण्डलं ततः ॥ दक्षिणाग्नेस्तु विष्कम्भस्त्रिंशदालतमितः । चतुर्भिश्च तिलैः सार्धं तदर्धेनैव मण्डलम् ।। मण्डलोत्तररेखास्थशङ्कोरन्यच्च मण्डलम् । मण्डलद्वयसंसर्गे स्पन्धां पूर्वापरे क्षिपेत् ।। शूर्पद्वयं दक्षिणं स्यादनेरुत्तरमुत्सृनेत् । घण्णवत्यगुला वेदिः प्रत्यगाहवनीयतः ॥ पश्चात्तिरश्ची विज्ञेया चतुःषष्टयङ्गुलैर्मिते । भरत्निवययुक्ता सा पुरस्तात्तिर्यगीरिता ॥ सप्तारस्निप्रमाणस्य सूत्रस्यान्तौ सपाशको । अन्त्यपाशादरत्नौ तु चिह्नमंसार्थकं भवेत् ।। द्वात्रिंशदडले चिदं पाशाच्छोग्यर्थकं भवेत् । अरनित्रितये पाशाकर्षणाय निराञ्छनम् ।। पिसन्तयोः शङ्कोः पाशावामुच्य लक्षणात् । भाकृष्य वेधाः श्रोण्यसौ कल्पयेत्कृप्तचिह्नतः ॥ मा. दीर्घ चतुरश्रा स्यादेवमेकत्र चापराम् । पार्श्वमानी द्विरम्यस्य रज्ज्वन्तौ तु सपाशको ।। नमतानेयकोणस्थशङ्कोः पाशौ वितत्य च । मध्ये च लक्षणं कृत्वा लक्षणं दक्षिणा कृषत् ।। भवेत्तु लक्षणे शकुः शङ्को पाशौ नियम्य च । लक्षणेन लिखेत्पार्थ नैताग्नेय कोणगम् ॥ तथोत्तरं लिखेत्पाई. वायव्येशानकोणगम् । द्विरम्यस्ततया रज्ज्वा पाचँ पूर्वापरे लिखेत् ।। अपराग्नेः पुरः शिष्टोऽसावार्यों रत्निसंमितः । यदि भूमिरणुस्तत्र वेर्दि सनमयेत्कथम् ॥