पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९० सत्यापाढविरचितं श्रौतसूत्र- [३ तृतीयप्रभे-

अगारमग्निहोत्रस्य चतुर्हस्तप्रमाणकम् ॥ तन्मध्ये कल्पयेत्पृष्ठयां प्रत्यक्षागायतामृजुम् । पश्चात्पदद्वयं त्यक्त्वा पराग्न्यायतनं भवेत् ॥ अरनिना मितं तस्य मध्ये शकुं निखाय च । प्रादेशमितया रज्वा शङ्कुतो मण्डलं लिखेत् ॥ पुरस्ताविपदं हित्वा पूर्वाग्नेर्वाऽऽखरो भवेत् । अगुलैरेकविंशत्या नवभिश्च तिलैः सह ॥ चतुरश्नः समः कार्यस्तस्य चाऽऽवृदीर्यते ॥ यावती मानतो रज्जुस्तावत्यागन्तुकी भवेत् । भागन्तुरर्धे चिहं स्याच्छ्रोण्यं सार्थ तु तद्भवेत् ॥ तन्मध्यार्धाय चिह्न तु कर्षणाय भवेदिह । दीर्घमागस्थितं पाशं पूर्वशङ्को प्रकल्पयेत् ॥ हस्वपाश्वर्गतं पाशं पाश्चात्ये लक्षणात्कृषेत् । दक्षिणोत्तरतः श्रोणी कल्पयेत्कृप्तचिह्नतः ॥ शङ्कोः पाशी विपर्यस्य तस्यांसौ कल्पयेत्पुरः । पूर्वापरान्योर्मध्यस्य पृष्ठ्या पञ्चविधा भवेत् ।। षष्ठं भागमथाऽऽगन्तुं समं तत्र नियोजयेत् । रज्जोरन्तौ सपाशौ तां पुनः संभुज्य पञ्चधा ।। भागानां द्वित्रिमध्ये तु लक्षणं कल्पयेत्ततः । भागत्रयं पुरस्तात्तु पश्चाद्भागद्वयं तथा ॥ पूर्वापरारन्योर्मध्यस्थशङ्कोः पाशौ नियोजयेत् । लक्षण दक्षिणाऽऽकृष्य लक्षणे शकुमादिशेत् ॥ सदक्षिणान्यायतनमध्यशङ्कुर्भवेदिह । लक्षणं चोत्तराऽऽकृष्य शङ्कुरानवकृप्तये ।। व्यत्यस्तपाशां रज्जु तामुदगाकृष्य लक्षणे । शङ्कावुल्कर एव स्यात्संचरश्च तदन्तरा ॥ अमुल्यश्च चतुस्त्रिंशद्दक्षिणान्याखरो भवेत् । दक्षिणाग्नर्मध्यशङ्कोरुदक्सार्धाङ्गलाष्टके ॥ शकुं निखाय तस्यैव त्वाखरार्धेन मण्डलम् । कृत्वा मण्डलमध्ये च स्पन्धां प्रागायतां न्यसेत् ॥ दक्षिणं धनुरग्नेः स्यादुत्तरं धनुरुत्सृजेत् । अशलैः सप्तविंशत्या परामेराखरोऽथवा ॥