पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८ सत्याषाढविरचितं श्रौतसूत्रं- [३ तृतीयप्रश्ने-

अरनिविष्कम्भकमाद्यवहत्तं गृहं तत्प्रकृति विधाय च । भन्यानि तरक्षेत्रसमानि कुर्वते शुरुवोक्तरीत्या स्वयमूहयन्ति च ॥ अरनिमानं चतुरश्रमेव वा प्रकृत्य तत्क्षेत्रसमं च वर्तुलम् । यद्वहेरपरत्र पूर्ववत्तत्रेरिता वृ(मोत्कृताश्च कारिकाः- प्राची विज्ञाय पूर्वं तु विहारं कल्पयेत्ततः । प्राचीज्ञानप्रकारं तु कल्प आचार्य उचिवान् ॥ तमेवार्थमहं वक्ष्ये व्याख्यानमवलोक्य च । चित्रास्वात्य॒क्षयोर्मध्यं प्राची विद्याद्विचक्षणात् ॥ श्रोणानक्षत्रमधवा दक्षिणापथवासिनाम् । उदगाशास्थितानां तु प्राची ज्ञेयास्तु कृत्तिकाः ॥ साधारणमिदं सर्वदेशानां वक्ष्यते मया । कर्तुमिष्टे समे देशे हस्तद्वयसमन्विते ॥ षडङ्गुलपरीणाहो द्वादशाङ्गुलमायतः । एकताक्ष्णूरु(क्ष्णुक्र) जुस्तष्टः खादिरस्यात्रणः समः ॥ शङ्कुः समशिराः कार्यो देशे तं स्थापयेत्समे । शङ्कोः पूर्वीपरे देशे रेखां प्रागायतां न्यसेत् ॥ शकुना संमिता रज्जुः पाशद्वयसमन्विता । मध्ये तु कल्पयेच्चिदंशको पाशौ प्रमुच्य च ॥ चिडून मण्डलं कुर्यात्तस्य शङ्कोस्तु सर्वतः । पूर्वप्रकृप्तरेखाया मण्डलस्य च संगमे । शङ्क पूर्वापरौ स्थाप्यौ ताम्चा पूर्वापरे दिशौ । यावदिष्टं विजानीयादथ याम्योत्तरे दिशौ ॥ आमुच्य पाशं पूर्वस्मिन्नन्यपाशेन मण्डलम् । लिखेत्तथा प्रतीच्ये तु पाशं मुक्त्वाऽन्यमण्डलम् ॥ मण्डलद्वयसंसर्गे शङ्कुतो दक्षिणेतरौ । याम्योत्तरदिशावेवं विदिशोऽथ प्रकल्पयेत् ।। पूर्वादिशषु तथा पाशावामुच्य लक्षणात् । मण्डलानि लिखेदेवं चत्वारि च यथाक्रमम् ।। मण्डलानां च संसर्गा विदिशः परिकीर्तिताः । आचार्योक्त उपायोऽयं प्राचीविज्ञानलज्ञणः ॥ प्राचीज्ञानप्रकारोऽन्यः सूर्यसिद्धान्तरीतितः। स एवार्थो मयाऽत्रापि यथामति निगयते ॥