पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८७ २द्वि०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

मन्थो नाम यज्ञियकाष्ठस्य सारेण कृतो यस्य रज्ज्वा भ्रमणं क्रियते तस्य मन्यस्य मूलभागमुत्कीर्य प्रमन्थस्य शकलरूपस्य मूलं संधत्तं कृतसंधानयोरुभयोः प्रमाणं षड्. विशत्यङ्गुलमिति । अनेनैकशालोक्ता । प्राचीनवंशाचार्यस्तु यानमाने वक्ष्यत्याहवनी- यागार गार्हपत्यागारे वेति । तेन गम्यत उदीचीनवंशशालाद्वयं कार्यम् । आपस्तम्बेन तु स्पष्टमेव शालाद्वयमुक्तम् । तत्राऽऽदौ ब्राह्मौदनिकाधानात्पूर्वदिने नान्दीश्राद्धमृद- कशान्ति प्रतिसरबन्धं कुर्यात्ततः पूर्वमेवाड्रार्पणं कुर्यात् । पात्रलक्षणं तु दर्शपूर्णमाप्त - योरेव निरूपितम् । आयतनानि-सूत्रकृन्नोक्तवान्साक्षान्मानमायतनेषु तत् । गार्हपत्यादिकानीनां ततो धिष्ण्यस्य मानतः ॥ गृह्यते याज्ञिकैः सर्वैर्यतो धिष्ण्याश्च तेऽग्नयः । विष्णियमानं तु पिशीलमात्रा भवन्तीति धिष्णियानां विज्ञायते चतुरश्रा इत्येके पा. मिति सूत्रम् । तत्र परिमण्डलेन विकल्पम्(:)। सर्वाण्यायतनानि चतुरश्राणि परि- मण्डलानि वेति सूत्रकृतामाचार्याणां बहूनां संमतम् । तत्र पिशीलमानं पञ्चधा वदन्ति- बाह्रोरन्तरालमेकम् । बद्धमुष्टी रनिरिति द्वितीयम् । अरनिरिति तृतीयम् । द्वात्रिं. शदङ्गुलमिति चतुर्थम् । षट्त्रिंशदङ्गुलमिति पञ्चमम् । एतेषामर्धमानेन वर्तुलं भ्रामयेदेवं सर्वाग्नीनामथवाऽन्यतरमानेन चतुरश्नाणि सर्वाणीति निर्णयः । अथ वा वैखानसेनोक्तो विशेषो ग्राह्यः । गार्हपत्यायतनमष्टादशाङ्गुल्या वृत्तं भ्रामयित्वाऽष्टाङ्गुलोन्नत स्थण्डिलं कृत्वा परितश्चतुरङ्गुलविस्तारं हित्वा मध्ये षडङ्गुलविस्तारं निम्नं सनति शिष्टं तदूर्ध्वमेखला स्यात्तत्परितश्चतुरङ्गुलविस्तारोन्नतामधोमेखलां करोति । तथाऽऽ- हवनीयायतनं चतुरनं चतुर्दिक्षु द्वात्रिंशदल्यायतमष्टाङ्गुलोन्नतं स्थण्डिलं परि- कल्प्य पूर्ववत्परितो हित्वा मेखला मध्ये निम्नमधोमेखला करोति । अन्वा. हार्यपचनं पञ्चविंशत्यनुल्या वृत्तं भ्रामयित्वा दक्षिणार्धेऽर्धचन्द्राकार स्थण्डिलं पूर्ववत्तस्योन्नतं निम्नं मध्यमूर्ध्वाधरमेखलेषु वेद्युत्तराधी(१) कृत्वा पूर्वभागान्तरे प्रक्रमे वेद्युन्नतमुत्करं करोतीत्युक्तम् । वेदिस्तु स्वसूत्रे दर्शितैवेति न तदुक्ता माह्या तस्याश्चतुरङ्गुलोन्नतत्वमुक्तमेवमुत्करस्यापि ज्ञेयम् । इदमपि श्रौतत्वाद्मा- ह्यम् । भाष्यमते समक्षेत्रता । एतदनुसारेणेति याज्ञिका आहुर्वर्तुळे गार्हपत्यस्य चतुरश्नमाहवनीयस्यार्धचन्द्रं दक्षिणाग्नेः समक्षेत्राणीति । तदिदं रमणीयमिव मन्य- माना अस्मदीया अपि याज्ञिकाः स्वसूत्रोक्तं पिशीलप्रमाणमरस्निमात्रमनुसृत्य स्वसू- त्रोक्तं चतुरश्नत्वं वर्तुलत्वं वा सर्वायतनसमता(?) आयतनानि विहरन्ति । . १ क. ग, उ. प. छाङ्गु । २ क. ग. च. छ. ट. ठण. तुलं वा ।