पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ सत्याषाढविरचितं श्रौतसूत्रं- [१प्रथमप्रश्ने-

मन्त्रब्राह्मणयोर्वेदनामधेयम् ।

यद्यपीदमुक्त्वा पश्चाद्विधिलक्षणानीति वक्तव्यं सामान्यपरं तथाऽपि ब्राह्मणस्य विधि- त्वेन वक्ष्यमाणत्वाद्विधिलक्षणानीत्येवाऽऽदावुक्तम् । मन्त्रश्च ब्राह्मणं चेतीतरेतरयोगद्वंद्वे- नेतरेतरयुक्तत्वेन पठिते ते एवैको वेदो न तु यः कश्चन मन्त्रो यत्किचिदाह्मणमेको वेदो भवति । अत्रोद्देश्यगतं द्वित्वमविवक्षितम् । नाको मन्त्र एक ब्राह्मणवाक्यमेको वेदो ज्योतिष्टोमादीनां हौत्राककांशविधायकं मवति किं त्वनेकानि, प्रत्येकमेकैक- स्मिन्द्वयोर्द्वयोरध्ययने वेदोऽधीत इत्यप्रसिद्धः । नापि यत्र-ब्रामणग्रन्थत्वेन प्रसिद्धिस्तद्रा- सणं तदन्यो विमागः संहिता मन्त्र इति द्विवचनोपपत्तिरिति वाच्यम् । कर्मविधान ब्राह्मणानीति संहितागतानामपि विधायकवाक्यानां बाह्मणत्वेन लक्षितत्वात् । संहिताव्य- तिरिक्ते ब्राह्मणान्थे मन्त्राणां ब्राह्मणव्यतिरिक्तत्वेन मत्रत्वस्येष्टत्वात् । तस्माज्जात्य- भिप्रायेण द्विवचनम् । ब्राह्मणग्नन्थे या प्रसिद्धिाह्मणमिति [सा] बहुतरमाह्मणा- भिप्रायेण। अत एवोक्तं मन्त्र ब्राह्मणयोदस्त्रिगुणं यत्र पठ्यते । यजुर्वेदः स विज्ञेयः, इति । संहितागतानामपि त्रिगुणपठितानां ब्राह्मणत्वप्रसिद्धः । तस्मान्मन्त्र ब्राह्मणसमुदाय कग्रन्थत्वेन पठितो वैदिकैः स एको वेद एक पुरुषं प्रति । तथाऽन्य प्रत्यपि सामा- न्येन लक्षितः सर्वोऽपि वेदराशिदलक्षणशाखासमुदाय एव । उपपादितमेतत्प्रथम- सूत्रे कारिकाभिः । ततोऽन्यस्य त म्य एव शाखाभ्य उद्धृतस्य ब्राह्मणस्य मन्त्रस्य वा ज्योतिष्टोमादिषु हौत्राद्यविधायकस्य होत्रादिभिरप्रयुज्यमानस्य न वेदत्वम् । यत्रा- ध्ययनं तत्रासंबद्धानामपि मुख्यवेदान्तर्गतिः । अन्यत्रामुख्यवेदान्तर्गतिः । अत एवं वक्ष्यति वैदिकानां शब्दानां स्मृतिग्रहणानि लौकिकानोति । पूर्व वेदावयवत्वेन पठि- तानां शब्दानामुद्धतानां न वेदावयवत्वं किंतु वैदिकशब्दत्वमेव । तेपाममुख्यवेदत्वेन लौकिककर्मणि विधायकत्वमिति स्मातकर्म वेदाविहितत्वेनाश्रौत लौकिक वाच्यते । उक्तमेव स्मारितम् । यावतार्थोपरमत इति प्रत्येकं वाक्ये मत्रत्वमुक्तं तेषां जात्ये- कवचनम् । बाह्मणत्वमपि वाक्य एव । अतोऽसौ विधायकत्वेन च वेद इति भावः । अत्र मन्त्रब्राह्मणयोर्लक्षणे अनुक्त्वैव तन्निरूपितवेदशब्दार्थ वदति तत्प्रसिद्ध्यैव वैदिकानां लक्षणे ज्ञातव्ये प्रकारान्तरेण दुर्निरूपत्वादिति सूचितवान् । यान्यपि लक्षणानि वक्ष्यन्ते तान्यव्यापकान्यतिव्यापकानीत्यमिप्रायः । एवं च प्रथमसूत्रद्वयेन त्रिविधकर्मसाधारण्येन प्रतिज्ञाविधायके दर्शिते । ततो वैतानिकौतकर्मविभागेन मुख्यवेदविहितत्वं दर्शितमर्थात्तदितरत् । प्रमाणमुदाहृतम् । इदानी वेदैकदेशस्य लक्षणमाह- ततः सर्वकर्म- छ. नाप्येको।