पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०पटळ:] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २३ तस्मात्प्रवर्तकं वाक्यमेव विधिरित्युक्तम् । ततस्तु विदधातीति कर्तृव्युत्पत्त्या वाक्य- स्यैव प्रवर्तनाव्यापारवत्तया तथा प्रवर्तकत्वेन प्रमाणतोक्ताऽपौरुषेयत्वेन । अनेन च निर- स्तसमस्तपुरुषदोषाशङ्कस्यात एव स्वतो बोधकस्य प्रवर्तकतया यत इष्टसाधनताबोध. कस्यापूर्वद्वारा स्वेष्ट ननकतोक्ता । लक्षणशब्देन चासाधारण प्रमाणमित्युक्तम् । तेन न प्रत्यक्षादिप्रमाणमाह्यत्वमित्युक्तम् । न हि कर्तव्यत्वेनोपदिष्टस्य साध्यैकत्वमावस्य कर्मणो रूपं प्रमाणान्तरगम्यं भवेत् । उपपादितमेतत्सत्संप्रयोगे पुरुषस्येन्द्रियाणामित्या- दिना तर्कपादे । अत एव यदृझते प्रत्यक्षादिना रूपं न तद्विधेयस्य धर्मस्यापि तु श्रेयः- साधनत्वेन धर्मत्वमित्युक्तं भवति । उक्तं च-'श्रेयःसाधनता हटेषां नित्यं वेदारप्रतीयते । ताशे तत्र धर्मत्वं तस्मान्नेन्द्रियगोचरः' इति । तथा 'द्रव्याक्रियागुणादीनां धर्मत्वं स्थापयिष्यते' इति । अत्र पालनस्यापि विधिलक्षणत्वं वक्तुं धर्मशब्दो न प्रयुक्तः । मीमांसका हि प्रवृ- विलक्षणस्येव धर्मत्वमाहुः । स्वमते तु पालनस्य च धर्मत्वमेव पालनप्रचुरेषु कर्मसु सामयाचारिकान्धर्मान्व्याख्यास्याम इति प्रयोगदर्शनात् । तथाचापूर्वस्यापि धर्मत्वं प्रसिद्धम् । तस्य विधिलक्षणत्वं मा भूदिति यश्चादियों न स चोदनार्थ इति न्यायात्त- दर्थ कर्मग्रहणम् । एवं पालनस्यापि श्रेयःसाधनताऽस्त्येव विधिबलेन । अनिष्टप्रागमा- वपरिपालकत्वं च निषिद्धक्रियाप्रतिबन्धारिति । तथा च विधिलक्षणान्येव कर्माणि न प्रत्यक्षादिविषयाणि साध्यैकस्यमावतया श्रेयःसाधनत्वेन कर्मत्वापरपर्यायधर्मत्वात् । तथा चाऽऽयतौ श्रेयःसाधनता । कर्माण्येव विधिलक्षणानि न ब्रह्म सिद्धत्वेन प्राप्यतया फलत्वात् । न च फलं विधेयं, तदुक्तम्- 'फलांशे भावनायास्तु प्रत्ययो न विधायकः' इति । विधेस्त्रिविधस्यापि कल्पिताकल्पितसाधारण्येनकाकारत्वेन तद्गोचरस्थ कर्मणोऽपि श्रेयःसाधनत्यनकरूप्येऽपि कर्माणीतिबहुवचनं श्रौतस्मातसामयाचारिकाणामवान्तर- भेदप्रदर्शनाय । तत्र श्रौते काण्डे 'अग्नीपोमीयमेकादशकपालं पूर्णमासे प्रायच्छत् । इत्यादिषु कल्पितविधीनां श्रौतकाण्ड एवान्तर्भावः । तत्रानुमितेनैव श्रेयःसाधनता विधे. येति नियमोऽध्ययनविधिनैव ज्ञापितः । एतादृशेषु स्थलेषु नित्यानुमितविधिस्वीकारेऽपि न दोषः । अथवा शाखान्तरीयाणामेव विधायकानामनुमानम् । आलभेत निर्वपतीत्या- दिषु प्रत्यक्षाविधीनां शाखान्तरीयाणां दुर्लभत्वादनुमितविधित्वमेव न वयं नित्यं मन्त्र- ब्राह्मणात्मकं वेदमनुमीमहे । एवं च प्रकीर्णककाण्डद्वयेऽपि तत्तच्छन्दबलात्कस्सितस्य विधेस्तत्रैवान्तर्मावो ज्ञेयः । वेदत्रयविभागार्थ मुख्यवेदत्वं व्याचष्टे- १ख.छ. शेन चध'। २छ. नाप्येक।