पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

9 - २२ सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्रने-

यजुर्वेदेनाग्निहोत्रम् ।

अन्यत्र गुणं विधातुमनुवादः प्रधानस्य । यहूनामङ्गानां यजुर्वेद एव विधा. नात्तदाधानपिण्डपितृयज्ञदविहामहोतृविनियोगानामुपलक्षणम् । यद्यप्यत्र ब्रह्मत्वमा- धानेऽस्ति तथाऽपि तस्य याजुर्वेदिकत्वमेव । यद्यप्यन्यैरुक्तं ब्रह्मत्वमाधाने तदपि यजुर्वेदविहिताधानब्रह्मत्वे गुणविधिमात्र नेतरब्रह्मत्ववत्समविकल्पेन । अन्ये केचित्कर्म- विशेषा इतरवेदविहितास्तत्र तत्र श्रूयमाणाः प्रतिनियता एव सन्तीति तदर्थमेवाऽऽचा- यण प्रयत्नो न कृतः । अग्निहोत्रं गुणविध्यर्थमन्यत्रापि श्रूयते तदेवर्वेदगुणक विशे- षेणग्वेदमूत्रेऽपि दर्शितं याजुषमेवैतदर्थ यजुर्वेदनाग्निहोत्रमिति नियमितं दर्विहोमाना- मुपलक्षणम् । यज्ञं व्याख्यास्याम इति प्रतिज्ञायाग्निहोत्रं यजुर्वेदेनेत्ययक्षरूपस्याग्निहो. त्रस्य प्रदर्शनं यज्ञशब्दस्योपलक्षणार्थत्वप्रदर्शनार्थम् । वेदैविहितं श्रौतं प्रकीर्णकश. दैविहित लौकिकमिति मुख्यामुख्यवेदविमागस्तद्विहितकर्मविमागभार्थादुक्तः। न हि यज्ञशब्देन श्रोतं स्मार्त कर्म प्रतिज्ञाय तत्र वेदैविधीयत इत्युक्त्वा ज्योतिष्टोमदर्शपूर्णमा. साग्निहोत्राण्येव वेदैविधीयन्त इति वक्तुं शक्यम् । ननु चतुर्णामपि वेदानां ज्योतिष्टोमदर्शपूर्णमासानिहोत्रेष्वेव प्रमाणत्वेनोपक्षीणत्वा- स्कोऽशोऽवशिष्यते, यौ चामुख्यौ वेदी प्रमाणं लौकिकेषु न हि तदन्यो वेदोऽस्ति, योऽन्ययोरमुख्ययोर्मुलं स्यादित्याशङ्कय मुख्यवेदत्वोपाधिना ज्योतिष्टोमादिष्वेव प्रामाण्यं तदेकदेशेन प्रत्यक्षेण तदनुमितेन वा विधिवाक्येनाप्रवृत्तप्रवर्तनात्मकत्वेन विधियोपा- धिना सर्वकर्मसाधारण्येन प्रामाण्यमिति वक्तुं स त्रिपिवेदौषधीयत इत्येतन्याचष्टे-

विधिलक्षणानि कर्माणि ।

विधिलक्षणमसाधारणं प्रमाणं येषां तानि यज्ञोपललितानि कर्माणि तथा विधि- शब्दो यद्यपि प्रवर्तनासामान्यवाची तथाऽपि वेदैविधीयत इत्युक्त्वा विधिलक्षणानीति वदति । ततो ज्ञायते वेदैकदेश एव विधिरिति । स चैकदेशो यद्यपि विधितत्प्रत्यययो- रभेदविवक्षया प्रत्ययमात्रमागच्छेत्तथाऽपि न तावता साध्यसाधनेतिकर्तव्यतारूपे कर्मणि प्रामाण्यम् । यद्यपि प्रत्ययेऽन्वितानेकार्थाभिधायकत्वेन संसृष्टभावनाबोधकत्व- मस्ति तथाऽपि वैशेषिकपदैविना न पुरुषं प्रवर्तयितुमीष्टे । अतो वाक्यमेवात्र विधि- प्रत्ययान्तपदयुकं गृझते । उक्कं च वार्तिकाचार्य:-'किमाद्यपेक्षितैः पूर्णसमर्थः प्रत्ययो विधौ । तेन प्रवर्तकं वाक्यं शास्त्रेऽस्मिन्नोदनोच्यते । इति, 'नोदना चोपदेशश्च विधिश्चैकार्थवाचकाः' इति , 'भावनैव च वाक्यार्थः स्वकारकविशेषिता' इति च । - , १ क. ग, छ. 'होम।