पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५ १५०पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

कर्मविधानं ब्राह्मणानि ।

कर्म विधीयते पेन तत्तथा, विधिर्वाक्यमित्यर्थः । विधिलक्षणानीत्यत्र कर्तृत्वं विव- क्षितमकल्पितकल्पितप्रत्ययवद्वाक्यविवक्षयेह कल्पितस्य न ब्राह्मणत्वप्रसिद्धिः । तस्मात्कल्पिताकदिपतताधारण्येन विधिप्रत्यपद्वारा यद्विधानं तदाह्मणं, तेन विधिप्रत्य- यहीनस्यापि विधिकल्पकत्वेन विधायकत्वादस्ति ब्राह्मणत्वमिति भावः । तस्मात्कल्पिता. कल्पितविधिमत्तया प्रवर्तकत्वमविशिष्ट मेवेति दर्शथितुमेकवचनम् । ब्राह्मणानीति बहुवचन विधिप्रत्ययवद्वाक्यानां कल्पितविधिप्रत्ययवाक्यानां तवाऽर्थवादकल्पितविधिप्रत्ययवा तयाऽर्थवादानामपि ब्राह्मणत्वमेवेति दर्शयितुं, पहुवचनं नानाप्रकारत्वख्यापनार्य । शब्दानिष्ठे व्यापारे शब्दप्रतिपाये शब्दभावनापरपर्याये ज्ञानरूपे वा विधित्वं नान्यत्र । तचापौरुषेये वेद एव भवति । अनधिगतार्थत्वेन च प्रामाण्यमपि पैङ्ग्योपनिषदि ब्राह्मणे णेब्राह्मणत्वप्रसिद्धेर्यद्राह्मणं तत्कर्मविधानमिति तत्राव्याप्तेः । अथ सामान्यलक्षणं प्रमाणं ब्राह्मणं तद्वेधा सिद्धार्थ कर्मविधानमिति । तथा श्वेताश्वतरोपनिष- मन्त्रे ब्राह्मणत्वं स्यात् । अतोऽन्ये मन्त्रा इत्यनेन मत्रत्वं न संगच्छते तस्य ब्राह्मणा दन्यत्वामावात्। तस्माद्यत्र बामणत्वप्रसिद्धिस्तद्राह्मणम् । तस्मानानर्थो ब्राह्मणशब्दः । तत्र कर्मकाण्डोपयुक्तस्येदं लक्षणम् । मन्त्रेष्वप्येवम् । तत्र कर्मकाण्डोपयोगिनि मन्त्रेड- तोऽन्ये मन्त्रा इति स्वरूप, तेषां यज्ञकर्मार्था मन्त्रा इति लक्षणम् । उपनिषत्सु मत्रत्व- ब्राह्मणत्वे तु प्रकारान्तरेण लक्ष्ये, तयोः सांकर्यमप्यङ्गीकार्यमिति । अथवा श्रोतव्य- इत्यादिविधीनामेकवाक्यतां गतानि ब्राह्मणलक्षणलक्षितान्येवोपनिषद्वाक्यानि, ब्रह्म संस्कार्य फलं च, संस्कार्यफलं हि विधावुद्देश्यं व्यंशभावनाया विधेयत्वात् । न ब्रह्मणो विधेयत्व, संस्कार्यफलांशे प्रत्ययस्याविधायकत्वात् । तदुक्तं-'फलांशे भावनायास्तु प्रत्ययो न विधायकः' इति । तथा संस्कार्यमप्यद्देश्यत्वेनानुपादेयत्वादविधेयम् । तथोक्तं-'देशः कालो निमित्तं च फलं संस्कार्यमेव च । मीमांसाकुशलाः प्राहुरनुपादेयपञ्चकम् ' ॥ इति । ननु तहि कथंकार वेदान्तानां विधित्व निराकृतम् । विधेयज्ञानविषयत्वामायनेति ब्रूमः । नाङ्गी क्रियते च ज्ञाने विधिः । तथा वक्ष्यत्याचार्यः । आत्मलाभात्परं नास्ति' इति । लब्धस्य लाभो ज्ञानेन प्रमाणजन्यनैवेति न विधिरिति तत्रैव स्फुटयिष्यते । तस्मात्फलत्वेनोपात्तस्य स्वरूपकथनपरा बेशन्ता अपि विध्यपेक्षितसंस्कार्यफलसमर्प. कत्वाहामणवाक्यमिति संक्षेपतो निरूपितं ज्ञेयम् । अत्र वेदान्तजन्यं ज्ञानमेवोद्दिश्य- थाभावनासंभावितभावनाविपरीतभावना निवर्तयति । श्रवणादीनि कर्माणि विधे यानि । १. “य ब्राह्मणश'। २ क ग. स्कार्य की ३ क. ग. च. छ. कारण ३ र क.ग. क्षेत्र । ५ स.निवर्तयन्ति । छ. निवर्तयति।