पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- रवि १० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २८५

मेव । यदाहवनीये जुलतीत्यादिना तथाऽस्य सर्वे प्रीता अभीष्टा भाधीयन्त इत्यर्थवादेन संस्कारकर्मताऽऽश्रिताऽभिमता चेति दर्शितमेव । तेन संस्कारेण संस्कृता अग्नयः पश्चादन्यैर्वाक्यैस्तत्तत्कर्माङ्गत्वेन विधीयन्ते । द्विविधं हि कर्माङ्गं द्रव्यमेकं लोकतः सिद्धमङ्गत्वेन विधीयतेऽन्यद्वैदिककर्मणा सिद्धमङ्गत्वेन विधीयते । तत्साधक कर्मापि द्विविध प्रयोगान्तर्गतमनन्तर्गतं च । प्रथमं तु प्रधानाङ्गं सदेव द्रव्योत्पादकं ययाऽवह- ननादि पुरोडाशोत्पादकम् । अन्यत्प्रधानकर्माङ्गतामनापन्नमेवाङ्गभूतस्य द्रव्यस्याङ्गं सदुत्पादकम् । यथाऽध्ययनं स्वाध्यायोत्पादकमाधानमपि तथा । तस्याधिकारिणस्तु निरूपिता एव । प्रथमपटले पुनर्धर्षेषु स्वयमप्यशूद्राणामदुष्ट कर्मणामुपनयनं वेदाध्य- यनमग्न्याधेयमिति वदिष्यति । नित्येषु पाठान्नित्यत्वेन केवलमपि हविर्वज्ञत्वेन संकारेषु पठितम् । नियमापूर्वद्वारा निःश्रेयसकारणम् । तस्मादत्रापि पृथक्स- कल्पेन भाव्यम् । अनेनैवाभिप्रायेण बौधायनेनोक्तं (न:) क्रत्वादौ ऋतु काम काम- यीत यज्ञाङ्गादौ यज्ञाग काममित्युपक्रम्याऽऽह-सर्वकामोऽग्नीनाधास्य इत्य- न्याधेय इति । वैखानसस्तु सर्वकर्मार्थमनोनाधास्य इत्युक्त्वेति ततः संकल्पपूर्वक- मेवाऽऽधानं कामिति । अत्राऽऽधानाङ्गवैकल्ये पुनः क्रिया सर्वाधानस्य न त्वङ्ग- मात्रस्य । कुतः, प्रायश्चित्तं कृत्वाऽङ्गमनुष्ठेयम् । नचाऽऽधानासिद्धावाहवनीय- योऽम्ति पवमानहविःषु तु माविसंज्ञया प्रवृत्तेः । अत्रोपकारकमाह बौधायनः- भग्नानाधास्यमानः प्राज्यमात्मानं कुर्वीत येनास्य कुशलं स्यात्तेन कुशलं कुर्वी. तेति यथोक्तमात्मनः पुरश्चरणमिति च । प्राज्यं शुद्धं येन येन कर्मणाऽस्य कुशलं प्रायश्चित्तम् । तथा वैखानसेनाप्युक्तम्-युक्तः श्रद्धान्वितो यजमानोऽ- नुज्ञातः केशश्मश्रुरोमनखानि च वापयित्वा विधिना नात इषे त्वोनें त्वत्यादि- स्वाध्यायमधीयानः शतं प्राणायार्थ च(मांश्च) कुर्याद्ध्यायन्नारायणमुपोष्य सपत्नीको घृतमिश्रं हवियं क्षीरेणाभीयास्मृत्युक्तवतमाचरन्पावनार्थममात्यहोमान्कूष्माण्डादश्चि जुहयादिति । युक्त इन्द्रिय चापलरहितः । अनुज्ञातो ब्राह्मणैः केशादीवापयेत्स्वा- ध्यायं वेदपारायणं नारायण ध्यायन्नन्नत्यागेनापोग्य नियतात्मेत्यर्थः। वेदपारायणप्रा- णायामेषु तथाऽन्येष्वमात्यहोमादिषु स्मृत्यक्तेष्वपि व्रतेषु सपत्नीकस्य भोजनानियमो घृतमिश्वमित्यादि । एवं स्मृत्युक्तान्यन्यान्यपि जपतिलहोमादीनि कृच्छ चान्द्रायणादौनि यथाशक्त्या(क्ति) यावदात्मशुद्धि मन्यते तावत्कृत्वा संकल्पात्पूर्वमेवारणी छित्त्वा शोषयित्वा यतुद्वादशाहादिपक्षः । संवत्सरपक्षसंकल्पे चाऽऽ एव वाऽऽहरणीये । भरणीप्रमाणमर्थलक्षणं यावता प्रयोननं तावत्प्रमाणमित्याचार्याणां मतम् । बौधायनस्तु- १ छ, तस्य । २ख छ. "था त'।