पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- २८२ सत्यापाढविरचितं श्रौतसूत्र- [ ३ तृतीयप्रश्ने-

अक्तपणे कर्मजो लोप एवं स्यादित्यर्थः । श्यामाके चरौ विहिते प्रतिनिधौ प्राप्त श्रूयते-अयज्ञिया वे कोद्रवा अयज्ञिया वरडका इति । तथा मौद्रोऽपि चरौ अयज्ञिया । माषा इति । सोयमविशेषेण यज्ञसंबन्धी निषिध्यते न चरुद्वय इत्यर्थः । यदार्याणा. ममोजनीयमित्यादिरपि ज्ञेयः प्रतिषेधः । अथ यत्र वैकल्पिक द्रव्यमुपात्तं नष्टं यथा ब्रीहिधु नष्टेषु किं ब्रीहिसामान्येन प्रतिनिध्युपादानमुत श्रुतद्रव्यं यवा उपादेयाः । श्रृंतद्रव्याभावे प्रतिनिधिरिष्यते न श्रुतद्रव्ये सतीति यवा उपादेया इत्येवं प्राप्त आह-

विकल्पे प्रवृत्तिलक्षणः ।

अस्मिन्विकल्पे यत्प्रवृत्तं द्रव्यं तत्सामान्येन प्रतिनिध्युपादानम् । न श्रुतमपि द्रव्यमुपादेयं, किं कारणं सर्वत्र हि वैकल्पिकेषु द्रव्येषु यजमानः स्वयमेवैकं साधनत्वे. नाङ्गी करोति । तत्र च तदेव साधनं नान्यदश्रुतसममेव हि तदिति । यदि च तदु. पादीयते कर्मान्तरबुद्धिः स्यान्न च सध्यते । तस्मात्प्रक्रान्तद्रव्यप्तादृश्येन प्रतिनिध्यु- पादानमिति । सजातीयाभावेऽपि विजातीयग्रहणेऽपि ब्रीहीणां मेधसुमनस्यमान इति मन्त्रलोषो नास्ति । कचिदपवादमाह-

कृत्स्नाभावे प्रतिनिधिः ।

विहितस्योपात्तस्य सर्वस्य नाशे प्रतिनिधिरसर्वस्य नाशे न प्रतिनिधिः । ननु किंचिन्मात्रावशिष्टेऽपि भवत्येव सर्वस्य नाशस्तत्राऽऽह-

मात्रापचारे तेन समाप्येत ।

कर्मेति शेषः । प्रधानाहुत्यादिसमर्थ उपात्तद्रव्ये सति शेषकार्याणां लोपः प्रधानं तु तेनैवानुष्ठेयम् । एवं विहिते द्रव्ये प्रधानपर्याप्त संभवति तदेव ग्राह्यम् । तत्रापि शेष- कार्याणां लोपो वरं न सु शेषकार्यसमर्थप्रतिनिध्युपादानम् । प्रतिनिधावपि चोदितजात्यादित्यागनिमित्त प्रायश्चित्तं कार्यमित्याह-

द्रव्याभावे प्रतिनिधिर्विध्यपराधे प्रायश्चित्तम् ।

.मात्रापचारे नैव प्रतिनिधिः प्रायश्चित्तं तु भवत्येव । द्रव्याभाव इति पुनरभावग्रहणं प्रधानपर्याप्तद्रव्याभाव एवं प्रतिनिध्युपादानप्रदर्शनार्थम् । उपात्तविहितद्रव्यनाश. शङ्कया प्रतिनिधावपात्तेऽपि तेन प्रधानन्येणानुष्ठाने सिद्धेऽप्युपात्तद्रव्यलाभो यदि भवेत्तदा तेनापि पुनरनुष्ठानं कार्यमेव । उपात्तस्य संस्कृतस्यापि द्रव्यस्याप्रधा- नस्य नाशशङ्कया प्रतिनिध्युपादानेन प्रयोजने सिद्धे पूर्वद्रव्ये यूपादौ लब्धेऽपि न पुन-

१क. स. ग. च, छ, ट, ण, लक्षणम् ।