पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- १५०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

माप्तौ दोषो भवति । तदपि हि नित्यैः समानं मवति । यथैव नित्यस्याकरणे शिष्ट- विगर्हणमेवं काम्यस्यासमाप्तौ शिष्टविगर्हणम् । ननु शिष्टविगर्हणं नाम को दोषः । अस्ति दोषो येन शिष्टा विगर्हन्ते । अथापि नाम नास्ति दोषो विगर्हणमेव दुष्ट- मिति । दर्शनाच । दर्शयति द्रव्यान्तरेण परिसमातिं यदि सोमं न विन्देत्पूतोकानभि- पुणुयादिति । कात्यायनीयं सर्वत्र द्रव्यप्तामान्य प्रयोजकमित्युक्तम् । तत्किमविशेषेण नेत्याह-

अर्थावाप्तौ द्रव्यसामान्यम् ।

उपलक्षणमिति शेषः । सजातीयेन प्रतिनिहितेन यदि प्रयोजनं संपद्यते तदा समातीयं न्यूनविहितगुणमपि यथाकथंचित्प्रयोजनलामे तदेव माझं न तु तच्छब्दानु- पलक्षितं विहितसमस्त गुणमपि विजातीयम् । व्यतिरेके दर्शयति-

अर्थविप्रतिषेधे त्वर्थसामान्यम् ।

यथाकथंचिदपि यदि सजातीयेन प्रयोजनं न भवति तदाऽर्थन प्रयोजनेन नोप- लक्षिता या विहितद्रव्यनिष्ठाऽन्याऽव्यवहिता साक्षाध्यापिका नातिस्तथैव समान- नातीयं ग्राह्यं न तु व्यापकन्यापकादिसामान्येन सनातीयम् । तदपि पूर्वपूर्वालामे प्राह्ममेव समानजातीयपर्यन्तम् । तदेतदर्थतामान्यमित्यनेन दर्शितम् । एवमेव विवक्षितमिति दर्शयितुमुदाहरति-

यथा यूपाञ्जने सर्पिषोऽभावे तैलम् ।

अत्र यूपाञ्जनेऽनक्ति तेजो वा आज्यं यजमानेनाग्निष्ठेति ब्राह्मण आज्यशब्देन विधानेऽपि सर्पिष इति यदसर्पत्तत्सपिरभवदिति घतप्तामान्यवाच्याज्यशब्दो न तु संस्कारवाचीति दर्शितम् । अत एव वक्ष्यति लौकिकेनाऽऽज्येनेत्यादि यजमानो यूपमनक्तीति । सर्पिषो यथाकथंचिदसामर्थे सर्पिीत्या विजातीयमपि तैलं नेहव. गृह्यते । प्रतिनिधी विहिते च प्रतिषेधस्य संकोचो भवतीत्याशङ्कित उत्तरम्-

प्रतिषिद्धेभ्यो निवृत्तः प्रतिनिधिः ।

न हि यागीयत्वेन हि निषिद्ध प्रतिनिधित्वेन ग्राह्यं विजातीयनान्येनापि तसिद्धेः। तस्मान्यायेन प्राप्तः प्रतिनिधिर्यागीयत्वेन प्रतिषिद्धेभ्यो निवृत्तोऽन्य एवं प्रतिनिधिः । ननु प्रकरणे पठितः प्रतिषेधस्तत्रैव स्यान्नान्यत्रेत्याशझ्याऽऽह-

अविशेषेण हि प्रतिषेधः श्रूयते ।

अविशेषेण श्रुतिस्मृत्यादौ प्रतिषेधो यस्माच्छ्यते स तु न संकोचनीयो न्यायप्राप्त- विधिना तस्य दृष्टद्वारा सामर्थेऽप्यदृष्टद्वारकशक्त्यमावः प्रतिषेधादवगम्यते ।