पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २६३ गङ्गाधरो दारशरीरभाग्यया यया हरिः श्रीपतिसंज्ञितः कृतः । यया महालक्ष्म्यभिधानया जग- पितामहोऽप्येष सरस्वतीपतिः ॥ ४ ॥ तस्यै नमस्तेऽम्ब पुनर्नमोऽस्तु ते भूयो नमस्तेऽस्तु कृपाकटाक्षतः । मां पाहि जाड्यात्कृपणं कृपानिधे मद्वंशमात गतां च साक्षिणि ॥ ५ ॥ सर्वयज्ञतदङ्गानां सामान्यन्यायपूर्वकम् । मीमांसया तथा दर्शपूर्णमासप्रयोगयोः ॥ ६ ॥ विशेषेणैव च व्याख्या कृतेदानी वितन्यते । अनुष्ठानक्रमेणैव स्वग्न्याधेयादिकर्मणाम् ॥ ७ ॥ आवश्यकानां तत्राऽऽदौ फलमावश्यकं तु यत् । सर्वसाधारणं व्याप्तमीमांसावमनाऽऽगतम् ॥ ८॥ प्रश्ने तृतीय भायेन पटलेन निरूप्यते । नियतानां विभागश्च प्रतिनिध्युपदेशनम् ॥ ९॥ कर्मभिनिःश्रेयस तानि शब्दलक्षणानि धार्यन्ते । नियतकर्मणां कलाश्रवणादनिष्टनिवृत्त्यर्थमपि प्रवृत्तिसिद्धेः संशयः किमेमिस्ति साध्य फलमुतास्तीति । तत्र-कर्तव्यान्यव नियतमिति कर्माणि यानि तु । एतेषां कर्मणां साध्यं फलं नैव हि लभ्यते ॥१॥ वाक्ये फलाश्रुतेर्वाक्य मेदात्साध्यानपेक्षणात् । फलामाव इति प्राप्ते सूत्रेणोत्तरमुच्यते ॥ २ ॥ सत्यामसत्यामिच्छायां विधिना यानि कर्तव्यानीत्युच्यन्तेऽत एवाकरणेऽनिष्टमेवा- स्तीति सेषु ज्ञायते तैः साध्यं फलं न श्रूयतेऽतो नास्ति । न च विश्वजिन्यायेन करप्य- मिति वाच्यम् । कल्पितेऽपि सत्यामिच्छायां प्रवृत्तिरन्यथा वा प्रवृत्तिनियतेषु विरु. ध्येत । अथ सर्वननोद्देश्यमुत्कृष्टं सुखमेव नियते फलं कहप्यते तर्हि निमित्तफलयो- रुद्देश्यत्वे वाक्यभेदः स्यात् । न च साकासत्वेन विध्यपर्यवसानाद्वाक्यभेदो न दूष. णमिति वाच्यम् । धात्वर्थमात्रस्य साध्यत्वेनापि कर्माकरणे दोषदर्शनात्प्रवृत्तिसिद्धेनीप. र्यवसानम् । न चेष्टसाधनतयैव प्रवृत्तिहेतुरनिष्ट परिहारे प्रायश्चित्तेऽपि प्रवृत्तिदर्शनात् । न चात्राप्युद्देश्यद्वयसद्भावाद्वाक्यभेद इति वाच्यम् । धात्वर्थस्यानुद्देश्यत्वेऽपि नान्तरी- यकतया साध्यत्वादन्यथा विध्यपर्यवसानात् । ननु कर्मणैव हि संसिद्धिमास्थिता जन- ।