पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६४ सत्याषाढविरचितं श्रौतसूत्र- [ ३तृतीयप्रो- कादय इति कर्मफलं संसिद्धिक्षिो दृश्यते तत्कथं फलाश्रवणमिति चेन्न । तद्वाक्य भेद- भयादनियतानामेव फलमस्तु तत्र वाक्येषु निमित्तानवणात् । दृश्यते चानियतानामपि निःश्रेयसं फलं खर्गशब्देनोपात्तम् । न च स्वर्गो विशिष्टदेश एवेति वाच्यम् । उत्कृष्टे सुख एव रूढः । तथा सर्वकामार्थानि कर्माणि दर्शपूर्णमासपशुसोमरूपाणि निःश्रेयस. लक्षणस्वार्थानि च भविष्यन्ति, तथा प्रजातिज्यैष्ठ्यसर्वजयब्रह्मसायुज्यफलानि वाजपेय- द्वादशाहादीन्यनेकानि सहस्र संवत्सरान्तेषु श्रूयमाणानि कर्माणि मोक्षसाधनानीति न नियतेषु फलश्रवणम् । यद्यपि नियतेष्वपि चर्णानि त्रीण्यपाकृत्येत्यादिवाक्यान्तरैवेनिः- श्रेयस फलं तथाऽपि तत्प्रयोगान्तर एव स्यान्न पुनरेकप्रयोग उद्देश्यद्वयेन सरसं- बन्धायोगात् । अथ वा नियताननुष्ठाने दुरितं तन्मोक्षप्रतिबन्धकमिति तदनुष्ठानान्मो- क्षः फलत्वेनोपर्यत इति पूर्वः पक्षः। एवं प्राप्तेऽभिधीयते-कर्मभिनिश्रेयस तानि शब्द- क्षणानि धार्यन्ते । विधिरिष्टफलेप्सूनामिष्ट साधन एव यत् । प्रवर्तकोऽन्यथा तस्य स्वरूपक्षतिरापतेत् ॥ १॥ तस्मात्साध्यफलं त्विष्टं नियतेष्वपि सर्वथा । पाप्मनः परिहारस्तु न साध्यो नान्तरीयकः ॥ २ ॥ कर्मभिनिश्चित्तं श्रेयो यशस्थेष्टं तत्प्राप्यते यतस्तानीति शेषः । पूर्व व्याख्यानप्रति . क्षायां यज्ञप्राधान्येन कृतायामपि फलं प्रति कर्ममात्रस्य साधनत्वं समानमेव न तु यज्ञप्रयोगबाहुल्यवत्तरतमभावोऽस्तीति वक्तुं कर्मशब्देन प्रतिज्ञातार्थग्रहणम् । नन्व- विहितेऽपि कर्मणि कर्भशब्दोऽस्तीति धर्मैरिति वक्तव्यं लाघवाचेति चेत् । न । धर्म- शब्दस्य मीमांसकमते केवलविधिमात्रविहिते प्रयोगो न तु निषिद्धप्रागभावपरिपाल. नरूपे, तदनुष्ठातार धार्मिक इति प्रयोगामावादिति । तस्यापि निःश्रेयस साधनत्वं वक्तं कर्मशब्दप्रयोगः । विधिलक्षणानि कर्माणीति प्रकरणात्सामर्थ्याच्च शब्दलक्षणानीत्यनि- धानाच नावधेषु प्राप्तिरिति विहितैरिति ज्ञास्यते । नन्विह निषेधशास्त्रे कथं पालने विधि- रुभयत्र प्रामाण्यामावादिति चेत् । न पिवेन्न हन्यादित्यादौ सर्वत्र विधिप्रत्ययदर्शनान्न- नोऽपि दर्शनान्नप्रकृतिभूतधात्वर्थेन न संवध्यते न प्रत्ययन केवलेन किं तु पदेन पदे तु विशेषणभूतेन धात्वर्थेनातो हननाभावेनेष्टं भावयेदिति वाक्यार्थः । तत्राभावस्य साक्षाद्भावनावच्छेदकत्वाभावेन हननादिप्रागमाव परिपालनरूपं कर्मैव लक्ष्यते । तेनाय शब्दार्थो हननादिमागमावपरिपालनेनेष्टं भावयेदिति । तथा, चार्थाद्वोधय- त्वापत्तो हननादि दुःखसाधनमिति । तस्य चाधर्मत्वं यं गर्हत सोऽधर्म इति वक्ष्यमा- णत्वावधर्मरूपं हननादिकमिति गम्यते यश्चार्थादर्थो न स चोदनेतिन्यायान्न तस्य चोदनाशब्दविषयत्वमर्थापत्तिविषयत्वात् । स्वमते तु पालनमपि धर्म एव परमतेन १ख छ. वेऽपित।