२५४ सत्याषाढविरचितं श्रोतसूत्र- [२ द्वितीयप्रश्ने-
स्वं लोम च्छित्त्वोत्तरे ।
नाभेरूर्ध्वं वै पुरुषस्य नाभ्या इति श्रुतेः । गतम् ।
नमो वः पितरो रसायेति नमस्कारैरुपतिष्ठते ।
नमःशब्दपूर्वकाः सप्त मन्त्रा एतैः सप्तभिः प्रत्येकं सप्तोपस्थानानि कार्याणि । दृष्टार्थेषु विकल्पो भवेत् । अदृष्टार्थत्वान्मन्त्रावृत्त्या क्रियाभ्यासेऽपि न दोष इति वक्तुं नमस्कारैरित्युक्तम् ।
ऊर्जस्वतीः स्वधया वन्दमानास्ता वो गच्छन्तु पितरः स्योनाः । ऊर्जं वहन्तीः सतमक्षितोदकाः क्षीरमुदकं घृतं मधु पयः कीलालं परिस्रुतꣳ स्वधा स्थ तर्पयत मे पितॄनिति त्रीनुदपातान्निनयति यथा पुरस्तात् ।। १९ ।।
गतार्थम् । यथा पुरस्तादिति वचनं लेपनिनयनं सूत्रान्तर उक्तं तन्मा भूदिति ।।
उत्तिष्ठत पितरः प्रेतपूर्वे यमस्य पन्थामनुयाता पुराणम् । धत्तादस्मासु द्रविणं यच्च भद्रं प्र णो ब्रूताद्भागधान्देवतास्विति पितॄनुत्थापयति ।
पितॄणामुत्थापन[सं]भाव्य जपतीत्यर्थः । पिण्डान्वोत्थापयति ।
परेत पितर इति प्रवाहयति ।
प्रवाहणं समीचीनैर्यानैः पितृलोकं प्रति नयनम् । मन्त्रः पूर्ववत् । मदन्तीति मन्त्रान्तः।
यन्तु पितरो मनसा जवेनेति पितॄन्सम्प्रसाधयति ।
पितृलोकं प्रापयति पूर्ववत् ।
मनो न्वा हुवामह इति तिसृभिर्मनस्वतीभिरुपतिष्ठते ।
मनःशब्दवतीभिः । आ न एत्विति द्वितीया । पुनर्न इति तृतीयर्क् । स्वलोकस्था- न्पितॄनुपतिष्ठते ।
अक्षन्नमीमदन्त प्रजापत इति पङ्क्तिप्राजापत्याभ्यां प्रत्येति ।
पङ्क्तित्वेन ज्ञानं कर्माङ्गमन्यथा यजुष्टो यज्ञभ्रेषप्रायश्चित्तं दक्षिणाग्नौ । हरी इति प्रथमा । रयीणामिति द्वितीया । उपवीती भूत्वोपस्थानार्थं गार्हपत्यं प्रति गच्छति ।
यदन्तरिक्षमिति पङ्क्त्या गार्हपत्यमुपतिष्ठते ।
मनेनसमिति मन्त्रान्तः । अक्षरगणनया शक्वरी तस्यां पङ्क्त्युपासना कार्येति भावः ।
१ स. ग. च. छ. ट. ठ, ण, 'सादय। २ घ. ह. ज. स.न. ह. तिच प°।