पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७स पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २५५

अभून्नो दूतो हविषो जातवेदा अवाड्ढव्यानि सुरभीणि कृत्वा । प्रादाः पितृभ्यः स्वधया ते अक्षन्प्रजानन्नग्ने पुनरप्येति देवानित्येकोल्मुकं प्रत्यपिसृज्य ।

स्थापितमुल्मुकं पुनर्दक्षिणाग्नौ मेलयित्वा ।

अभ्युक्ष्य द्वंद्वं पात्राणि प्रत्याहरति ।

पिण्डपितृयज्ञपात्राणि अद्भिरभ्युक्ष्य पश्चाद्द्वे द्वे प्रत्यवहरति आसादनस्थानात्प्र- वाहयति ।

स्थाल्यां पिण्डान्प्रत्यवदधाति ।

चरुस्थाश्यां पिण्डान्निक्षिपति ।

अपां त्वौषधीनाꣳ रसं प्राशयामि भूतकृतं गर्भं धत्स्वेति मध्यमं पिण्डं पत्न्यै प्रयच्छति ।

स्पष्टम् ।

आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पुरुषोऽसदिति पत्नी प्राश्नाति ।

पुरुषसंस्कारत्वान्मन्त्रलिङ्गाच्च पुरुषार्थत्वावगतेर्विभज्य प्रतिपत्नि देयः सर्वाभिर्मन्त्रेण भक्षणीय इति स्थितिः। तदर्थमेवार्थवादं पठति-

पुमाꣳसं जनयति ।

पुत्रमिति शेषः । न कामना कामपदाभावात् ।

ये समानाः समनसः पितरो यमराज्ये । तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् । ये सजाताः समनसो जीवा जीवेषु मामकाः । तेषाम् श्रीर्मयि कल्पतामस्मिँल्लोके शतꣳ समा इति सकृदाच्छिन्नानभ्युक्ष्याग्नावादधाति ।

अभ्युक्ष्य मन्त्राभ्यामादधाति दक्षिणाग्नौ ।

अपः पिण्डानभ्यवहरति ब्राह्मणं वा भोजयति ।

अपोऽभिलक्षीकृत्य निक्षिपति । स्पष्टम् ।

सोऽयमेवं विहित एवानाहिताग्नेः ।

सोऽयं पिण्डपितृयज्ञ एवंप्रकारेणोक्त एवानाहिताग्नेरपि भवति ।