२५२ सत्याषाढविरचितं श्रौतसूत्रं- [ २ द्वितीयप्रश्ने-
न जीवन्तमति ददातीत्येकेषाम् ।
उभयोर्मध्ये यो जीवति तमतिक्रम्य न ददातीत्यर्थः । प्रपितामहे जीवति पूर्वाभ्यां द्वयोर्जीवतोः पित्रे दातव्यमेवातिक्रमणमात्रप्रतिषेधात्पूर्वं यस्मै देयस्तस्मिञ्जीवति परस्मै दीयते तत्रैव प्रतिषेधः पूर्वसूत्रप्राप्तस्य । तत्र यावति कर्मण्यनधिकारस्तावदेव त्याज्यं न पिण्डपितृयज्ञ एव न ददातीति दानमात्रप्रतिषेधात्कार्यमेवेत्यभिप्रायेणाऽऽह-
होमान्तमेव कुर्यात् ।
मेक्षणप्रहरणान्तमित्यर्थः।
जीवपितुः पिण्डदानप्रभृत्युत्तरं लुप्यते ।
किमर्थमिदमुच्यते गतार्थत्वात् । उच्यते-द्विपितुरेकस्मिञ्जीवति तत्प्रभृति तत्प्रमुखं द्वयं लुप्यते नत्वन्यदपीत्येवमर्थमिदमिति ब्रूमः । प्रकृतं वक्तुं स्मारयति-
निधाय पिण्डान्
अनुवादः।
आपो देवीः स्वधया वन्दमानास्ता वो गच्छन्तु पितरः स्योनाः । ऊर्जं वहन्ती सतमक्षितोदकाः क्षीरमुदकं घृतं मधु पयः कीलालं परिस्रुतꣳ स्वधा स्थ तर्पयत मे पितॄनिति त्रीनुदपातान्निनयति ।
पिण्डेषु निनयनं प्रत्येकमेकमेकं संस्कारोऽयं यद्यपि प्रत्येकं प्राप्तस्तथाऽपि बहुव- चनेन सर्वेषु धारया सकृत्पातो मा भूदिति त्रीनित्युक्तम् । एकमेव पूर्णोदकं पात्रमुदकु- म्भाद्गृहीत्वा प्रत्येकं पिण्डेषु पातयेद्द्रव्यपृथक्त्वेऽभ्यावर्तत इति न्यायात् ।
अत्र पितरो यथाभागं मन्दध्वमनुस्वधमावृषायध्वमित्युक्त्वा वा पराङावर्तते ।
प्रदक्षिणं परावर्तते । मन्त्रस्तु पूर्वमेव जप्यः पिण्डानां पराङ्मुखस्तिष्ठेदित्यर्थः ।
ओष्मणो व्यावृत्त उपास्ते स्वाहोष्मणो व्यथिष्या इत्यूष्माणमुद्यन्तमनुमन्त्रयते ।
पराङ्मुख एवोद्यन्तं पिण्डेभ्य ऊष्माणमनुमन्त्रयते ।
- सूत्रपुस्तकेषु निनयतीत्यत्र निनीयेति विद्यते।
१ क. ग. च. छ. ट. ठ. यः । स्वा ।