पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० सत्याषाढविरचितं श्रौतसूत्रं- [१प्रथमप्रश्ने- मन्त्रब्राह्मणरूपो यो मुख्य इत्यभिधीयते ॥ एकाग्निकाण्डमपरस्तृतीयस्तु प्रकीर्णकः । तैः प्रत्येक मितो धर्मत्रिविधः परिकीर्तितः ॥ ४१ ॥ अनेनैवाभिप्रायेणाऽऽह बौधायन:--' उपदिष्टो धर्मः प्रतिवेदं तस्यानुव्याख्या- स्यामः स्मार्तो द्वितीयः शिष्टाचारस्तृतीयः' इति । उपदेशो वेदस्तेन कर्तव्यतया विहितो वैतानिक इति यावत् । प्रतिवेदं प्रतिशाखम् । न हि वेदे समुदायरूपेणैक एव प्रयोगो विधीयते किं तु नाना प्रयोगाः । प्रतिपूरुषमेकैक एव । तत एकशाखया स्वेन व्याख्यातः । तं प्रातिशाख्यधर्ममनु तच्छाखीय मौत तच्छाखीयशिष्टाचारलक्षणं च धर्म व्याख्यास्यामः । तावपि नियतौ प्रतिशाखमित्यर्थः । उभयोः स्मातत्वेऽपि प्रयमे त्वाचारानुमितस्याल्पत्वाद्वितीये भूपस्त्वात्स्मार्त इत्युक्तः प्रथमो द्वितीयः शिष्टाचार इति । तस्मात्साधूक्तं स चैविध्येन प्रसिद्ध। यज्ञोपलक्षितो धर्मतिभिर्वेदादिप्रमाणविधा- नत्रययुक्तैर्जाप्यते । कर्तव्यतयाऽबाधित तद्विषयज्ञानं जन्यते । अतोऽसंदिग्धाविपर्य- स्तस्पष्टेष्टसाधनताज्ञानजनकत्वात्प्रमाणरित्यर्थः । एवमत्र विधीयते कर्तव्यत्वेनोपदि- श्यते वेदेन का कर्तुरन्यस्यापौरुषेयेष्वसंभवात् । तेषामेव कर्तव्यार्थोपदेशरूपत्वेन प्रमाकरणत्वात्प्रामाण्यं विधिलागन्यापाराश्रयत्वात्तु कर्तृत्व न विरुध्यते । अस्ति चाऽऽ. रोपेऽपि प्रयोननं यथा गामानयेति वाक्येन प्रवृत्ते शिष्य उपाध्यायेन प्रेरित इति प्रयोगदर्शनाल्लोडभिधेयो व्यापार उपाध्यायनिष्ठ इत्यवगम्यते । यतो वचनरचनाकर्ता चोपाध्यायो वेदे कर्तुः प्रयोक्तुरभावेन तस्यैव प्रयोक्तृत्वेन व्यापार प्रत्याश्रयत्वमिति अपौरुषेयवेदानां निरस्तप्तमस्तदोषाशकानां स्वतो बोधकानां निरङ्कुशं प्रामाण्यमिति प्रयोजनम् । ननु कथं लिङ्गा(का)दिप्रत्ययविधुराणां प्रतिबद्धविधिशक्तिलिङ्गा(का) दिमतां च मन्त्रामा विधायकत्वं कर्मविधान ब्राह्मणमिति वक्ष्यमाणविरोधाच्च । उच्य- ते-विधिहि कर्तव्यतयाऽर्थस्योपदेशस्तस्य ज्ञानमुपदेशो व्यतिरेकश्चेति मीमांसासूत्रे प्रयोगात् । कर्तव्युत्पश्या शब्द भावव्युत्पत्त्या शब्दव्यापारे च दृश्यते तद्ग्रन्थेषु । भतो यज्ञो विधीयते कर्तव्यत्वेनोपदिश्यते । तत्र विधिप्रत्ययवतो ब्राह्मणस्य स्पष्टं ताच मन्त्राणां तु प्रयोगाङ्गभूतानामपि पदार्थविधया प्रामाण्यं वक्ष्यते विधिसइका- रित्वेन विधायकत्वं न हि मत्रविना केवलो विधिः सद्वारकमन्त्रविशिष्टां मावनां विधातुं समर्थः । एवं श्रौतस्मातीचारकर्मणां प्रत्येकं स्वरूपायुक्तम् । एवं प्रतिज्ञाते त्रिविधे कर्मणि सामान्यतः फलं स्वरूपप्रमाणावान्तरभेदं व्याख्याय श्रौतत्वेन बाहुल्यात्प्रकृतिविकृत्यात्मना च बहुव्याख्येयत्वाच्च श्रौतेषु कर्तृविशेषधर्म: विशेषान्वक्तुं मुख्यवेदपदोपात्तेन वेदचतुष्टयेन प्रमाणविशेषेणावान्तरभेदमाह - १ ख. छ. "लयमर्थम । २ क. ग. स्मार्तत । ३ क. ग. च.छ. क्षणाव्या । र ग. देनाव्यु।