पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० पटकः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । तं प्रकृत्यैव काण्डं यदेकानेः काण्डमुच्यते । तत्रोपनयनं श्रौत शाखान्तरगतं यतः ॥ ३१ ॥ धर्मप्रभेरिताः पञ्च यज्ञाः श्रौता इति स्थितिः । अतः प्रकीर्णकाण्डेन तुल्यमेकाग्निकाण्डकम् ॥ ३२ ॥ श्रौतेन सदृशं चैतदेकप्रकरणोदितम् । अतस्तु लौकिकं स्मार्तकाण्डद्वयममुख्यकम् ॥ ३३ ॥ गृहमा प्रकृत्योक्तं गृह्यकर्म विशेषतः । समयः स्मृतिशास्त्रं त्याचारः शिष्टानुवर्तनम् ॥ ३४ ॥ पुंसो लिप्सापेतमाभ्यां सामयाचारिकाः स्मृताः । तदेव गृह्यकाण्डं स्याद्यच्चोपनयनादिकम् ॥ ३५ ॥ स्मृतिशास्त्रं तथा धर्मप्रश्नौ काव्यमृषीरितम् । इतिहासपुराणानि सामयाचारशासनम् ॥ ३६ ॥ स्मृतिरपि-'वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्वतम् । भाचारश्चैव साधूनामिष्टसंतुष्टिरेव च ॥ इति । शीलमात्मगुणा अहिंसादयः । संतुष्टिवैकल्पिके कर्मण्यत्साहोऽन्यतरस्मिन् । तदुक्त बौधायननेन-' सुसंस्कारा बोहय एवातो विकृतिषु त एवानादेशे' इति । यत्र कर्त- व्यस्वेनाऽऽवेदनं नास्ति कापि येदे परार्थिवादमन्त्रेषु स्तुत्या सिद्ध एवान्द्यते, न च दृष्टं प्रयोजनमस्ति स एवाऽऽचारः शिष्टैरनुष्ठीयते तस्माच्छ्यासं पापीयान्पश्चादन्वेसि' 'यथाऽतिर्षि ज्योतिष्कृत्वा परिवेष्टि' 'धन्वन्निव प्रपा असि' 'कुमारा विशिखा इव इति, गुर्वनुगमनमतिथयेऽन्नदानमन्दके देशे प्रपा प्रवर्तनं गोदाने संस्कारे सशिखं मुण्डम- मिति । यत्र निन्दयाऽनुवादो यथाऽतिथये प्रदतायेति तत्र निषषोऽपि ज्ञेयः । तथा पुराणदर्शितमेव । तथा मागवते-'इतिहासपुराणानि पञ्चमो वेद इष्यते । इति । मानान्तरागृहीतार्थप्रमाणत्वात्रयोऽपि हि । समाना उक्तविधयो नानार्था एकशेषतः ॥ गृहीतानां त्रित्वसंख्या प्रकारावेदनान्मता । अन्यप्रकारतायास्तु परिसंख्यां करोति ॥ अतोऽपि च प्रमाणानां त्रित्व आवेदिते सति । अथर्वणोऽपि वेदस्य परिसंख्या न वेदतः ॥ तन्मुख्यामुख्यवृत्त्याऽप्यत्रैकशेषोऽपि युज्यते । १क, ग, 'पाव।