पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २४५ चेत्युक्तमापस्तम्बेन । यावज्जोवमित्यर्थः । उभयथाऽपि पुनरारम्भो निषिद्धः प्राकृतयो- दर्शपूर्णमासयोरिति सिद्धम् । उत्सर्गोऽनयोरपि । अथ वा दाक्षायणयज्ञलक्षणौ दर्श- पूर्णमासावुत्सनेदित्यर्थः । अत्रापि न पुनः प्राकृतयोरारम्भ इत्यपि सिध्यत्यर्थादिदम ग्रिम प्रश्ने स्फुटयिष्यते । इति सत्यापाढहिरण्यकशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवे. जयन्त्यां द्वितीयमश्ने षष्ठः पटलः ॥ ६ ॥


2.7 अथ द्वितीयप्रश्ने सप्तमः पटलः ।

समाप्तौ दर्शपूर्णमासौ । एवं सविकारौ सानुनिर्वाप्यौ सविकल्पो दर्शपूर्णमासाख्यौ यागौ व्याख्याय ब्रह्मस्वं व्याख्येयेऽपि दर्शेऽध्वर्युणाऽनुष्ठेयत्वसाम्येन तादृशस्यापि न दर्शाङ्गतेति वक्तुं पिण्डपितृयज्ञाख्यं दर्षिहोमपिण्डदानसमुदायाख्य(यरूपं) कर्म 'तिस्त्र आहुती होति त्रिनिदधाति षट् संपद्यन्ते' इति श्रुतं व्याचष्टे-

अमावास्यायामपराह्णे पिण्डपितृयज्ञेन यजते ।

संज्ञान्तरात्स्थतन्त्रकालविधानासंस्कारेषु पृथगभिधानाञ्च निष्क्रीय प्रतनुत इत्या- दिना नित्यो न्याय्यो नतु काम्यः कर्मान्तरम् । यद्यपि यनतिः श्रूयते तथाऽपि न यागो नितिया संज्ञया यजेरन्यार्थत्वं पिण्डैः पिण्डदानेन सहितः पितृभ्यो देवेभ्यो यज्ञो होमः स पिण्डपितृयज्ञः । पिण्डा मानुषेभ्यः पितृभ्यो दीयन्त इति प्रसिद्धम् । तदिदं पिण्डदानं पिण्डशब्नोपलक्षितं, तेन सहभावो देवरूपपितृहोम- स्योक्तस्तेन पिण्डदानहोमयोरुभयोरपि प्राधान्यमुक्तं, तेनास्य कर्मणो देवत्वं पित्र्यत्वं पास्ति । ततस्तु जीवैपितुः पिण्डदानलोपेऽपि होमेनैव तसिद्धिरसोमयाजिन इवाऽऽ. शेयोपांशुयागाभ्यां पौर्णमाप्तसिद्धिः । अत्र दानहोमात्मके कर्मणि न ददातेः प्रयोगो नापि जुहोतेः । अत एव सूत्रान्तरे श्रुत्यन्तरे च पिण्डपितृयज्ञेन चरन्तीति सामान्यप्रयोगः । अतः सूत्रकृता यज्ञशब्देन सहकृतशाखान्तरीयो यजतिरेव प्रयुक्तः साङ्गयज्ञेविधिवदत्रापि साङ्गकर्मविधानाज्जुहोतिददात्योरनुगतप्रदानमात्रसा- मान्यवाची। तत्रोभयोः प्राधान्येऽङ्गानि कि पित्र्याणि प्राचीनावीतित्वलक्षणानि तद्वि. परीतानि देवानि वेति संदेहे त्वनियमप्राप्तौ प्रयोगेण न्यायमाहऽऽचार्यस्तस्याभिप्रायो वर्यते । तत्र पितृतन्त्रस्य मुखतः प्रवृत्तेस्तस्य बलवत्त्वम् । कथम्, अपां मेध्यमिति बहिराहरणं पित्रर्थमेव । परिस्तरणानि तु पृथगेव परिभोजनीयैर्यदा न पिण्डदान १ ख, ग, च. छ. ठ. ण. 'वपितुः ।