पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. - २४४. सत्याषाढविरचितं श्रौतसूत्रं- [२द्वितीयप्रश्न- शानि बहूनि वैश्वदेव्यामिक्षायामेव तामणानुसारेण व्याख्यास्यन्ते । अत उत्पत्ति- विधिरपि तत्रैव व्याख्यास्यते प्रकृतिगतोऽपि लाघवाय तस्मात्तदतिदेशमेव सर्वा. भिक्षासु वदिष्यति । अतोऽत्रापि प्राप्ती नवप्रयानादिप्राप्तिमने निवारयिष्यामः । अत्र विशेषमाह-

तस्यैतद्व्रतं नानृतं वदेन्न माँसमश्नीयान्न स्त्रियमुपेयान्नास्य पल्पूलनेन वासः पल्पू- लयेयुर्नाञ्जीत नाभ्यञ्जीतर्तौ जायामुपेयात् ।

कर्माणतयाऽनृतवदनमांसमोजनस्त्रीमैथुनानि प्रतिषिध्यन्तेऽन्तरालेऽपि अन्यथा कर्म- वैगुण्यं स्यादित्यर्थः । त्रितयं स्पष्टम् । पल्पूलनं वनपक्षालनसाधनं पाषाणादि यत्प्रसिद्धं तेन नास्य दाक्षायणयज्ञयाजिनो वासो वस्त्रं +न परपूलयेयुः शिष्यभृ- स्यादयः [किंतु] हस्तादिभिरेव । तथा रजकेनापि प्रक्षालन न कार्यम् । प्रकारान्तरे- जैव वस्त्रधावनं कार्यम् । अत्र विशेषानभिधानात्सर्वदैव ब्रतानि स्युः । अञ्जनाम्यञ्जने प्रसिद्ध । तत्र गृहमंधीये विधानाद्भवतः । न स्त्रियमुपेयादित्युक्तस्य संकोचमाह विधिना-प्रती जायामुपेयाद्गच्छेत् । तथा गमने वैधे तु न वैगुण्य क्रतोः । अत्रोक्तं भरद्वाजेन--अन्तराख्नतानि यथा चातुर्मास्येष्विति । भन्येषां गुणविकाराणां यदा कामस्तदा कृत्वाऽन्यदा त्वविकृती यागौ यावनी. वादिपक्षेषु न तथाऽयं कुतो दर्शपूर्णमासप्रकृतप्रयोगेणाऽऽरम्भ एव विकल्पा- दित्याह-

सोऽयं दर्शपूर्णमासयोरादितो विकल्पोऽनेन दर्शपूर्णमासाभ्यां वा यजेत ।

सोऽयं दर्शपूर्णमासाम्यां नित्यप्रयोगाभ्यां काम्यप्रयोगाभ्यां फलितोऽस्य दक्षिा- यणयज्ञस्य विकल्प आदित आरम्म एवाऽऽधानानन्तरकाल एवं ज्ञेयो न विच्छया तयोरारब्धयोरस्य प्रयोगस्तस्मिन्त्राऽऽरब्धे तयोः प्रयोगः। अथ कथमेवमिति चेत्तत्राऽऽह-

तेन पञ्चदश वर्षाणीष्ट्वोत्सृजति दर्शपूर्णमासौ ।। १६ ।।

इति हिरण्यकेशिसूत्रस्य द्वितीयप्रश्ने षष्ठः पटलः ।। ६ ।।

यतोऽयं पाश्चदशवार्षिकः प्रयोगो नियम्यते गतायामपि कामनायां सति जीवने निमित्ते त्यक्तुमशक्यत्वात्स एव नित्यतां गतः काम्यदर्शपूर्णमासवत् । अत्र यनेत

अत्र प्रतिषिद्धमिति क. ग. च. छ. ट, 8. ण. पुस्तषु विद्यते तस्मामादिकमिति प्रतिभाति । नेतिपदमधिकम् । १क. 'भेत।