पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । गुणस्त्वग्रिमप्रयोगप्रदर्शने स्पष्ट इति भावः । कथं, दक्षः कुशल उत्साहीति यावत्, तस्येमे प्रयोगास्तेनानुष्ठातुं योग्यास्ते दाक्षास्तेषां प्रयोगाणामयनमावृत्तिः प्रतिमासंस चासौ यज्ञश्चेति विग्रहः । एवमेव जैमिनीयैरपि साधितम् । केचिदापस्तम्बीया कर्मान्तरत्वमाशंसन्ते तयायेन सूत्रेण च विरुद्धम् । प्रयोगमाह-

द्वे पौर्णमास्यौ भवतो द्वे अमावास्ये ।

एवं द्वयोः प्रयोगयोः स्थाने चत्वारः प्रयोगा मवन्तीति तेषां प्रतिमासमावृत्तिर्ने तु काम्यत्वासकृदनुष्ठानमित्यर्थः। द्वे पौर्णमास्याख्यौ प्रयोगकै पूर्णिमाया प्रतिपदिप यथाप्रकृति यजेत ततोऽस्या अस्याभ्यास गुणको यागः प्रतिपद्यन्वाधानादि द्विती- पायां यनेतेत्यर्थः । तथैवामावास्यायामपि भवत भावृत्ते मवतः इति पूर्वेपुर्यजत इत्यस्य फोलितोऽर्य इत्यर्थः। विशेषमाह-

आग्नेयोऽष्टाकपालोऽग्नीषोमीय एकादशकपालः पूर्वस्यां पौर्णमास्यामाग्नेयोऽष्टाकपाल ऐन्द्रं दध्युत्तरस्यामाग्नेयोऽ- ष्टाकपाल ऐन्द्राग्न एकादशकपालः पूर्वस्यायममावास्या- यामाग्नेयोऽष्टाकपालो मैत्रावरुण्यामिक्षोत्तरस्याम् ।

अत्र पूर्वेधुर्यधाप्रकृति परेयुरनीषोमीयस्थान ऐन्द्र दधीति तथैवामावास्यायामपि वक्तव्ये गुरुनिर्देशनेता एवं नोपांशुयानोऽसोमयाजिनोऽप्यनीषोमीयोऽसंनयतोऽपि शृतं संनयतोऽप्यन्द्राग्न इत्येवममिदं वचनम् । अन्येऽग्नीषोमीयस्य ग्रहणं निय. मार्थमेव न तूपांशुयाननिवृत्त्यर्थमुभयनियमे गौरवादिति भवत्यूपांशुयाज इत्याहुः । अत्र प्रयोगः-दाक्षायणयज्ञेन सुवर्गकामो यक्ष्ये पञ्चदश वर्षाणीति संकरप्य पौर्ण- मास्यां प्रतिपदि च तथाऽमावास्यायां प्रतिपदि द्वितीयायां चर्विकामप्रयोगवदेतेई- विनिः प्रयोगो ज्ञेयः । नात्र प्रधानमात्रस्यापकर्षः साकप्रस्थायीयवर्तिकत्वन्वाधानादि- ब्राह्मणभोजनान्तस्य प्रयोगस्याऽऽवृत्तिरिति प्रयोगेऽम्यस्ते संस्थिते वैमृधो न.तूमयेयुः। भैत्रावरुण्यामिक्षा यद्यपि दर्शपूर्णमासगता तथाऽपि वैश्वदेव्यामिक्षाया विकृतिः । अत्रास्मच्छाखायां वाजिनयागान्ताङ्गप्रचारानभिधानात्सूत्रे चातो गुणविकृतस्वेन प्रकृतिरपि विकृतिरियमस्या अतिदेशस्तु साङ्गविहितवैश्वदेवामिक्षात एव । अत्र वाजसनेयिनां मैत्रावरुण्यामिक्षायामेव तप्ते प्रातोह इत्यायामिक्षात्पत्तिविधिरस्ति । स च सर्वशाखाप्रत्ययन्यायेनात्रैव सूत्रकृता ब्याख्येयस्तथाऽप्यामिक्षान्युद्धरणाद्य- १ ख. देव्याऽऽमिक्षयाऽते ।