पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २२९

दक्षिणाकाले यथाशक्ति दक्षिणां ददाति ।

नान्वाहार्यः । सुवर्ण गुञ्जादिमानेन । न पार्वणहोमः ।

तत्र याथाकामी प्रक्रमे ।

विकल्पेनाथ न तु तदकरणे वैगुण्यम् । पौर्णमासयागस्याधिकगुणतेव परमनुष्ठानात् । तु तत्रोपक्रान्तस्य न त्याग इति प्रथमारम्भे यथा कामना भवति गुणाधिक्याय मया कार्य इति चेत्तदा यावद्दर्शपूर्णमासानुष्ठान तावरकर्तव्य एव । कुतः, न टेकस्यां शाखायां विकल्पः श्रूयतेऽस्मच्छाखायां तु नित्य एव तदनुसारेणोपक्रान्तेन त्यागः । आरब्ध. बाधात् । यदि शाखान्तरे तु निषेधस्तदनुसारेण न क्रियते तदा चानारब्ध उत्तरमारम्भो न कार्यः । अङ्गीकृतशास्त्रप्रामाण्यत्यागप्रसङ्गात् । तस्मात्प्रथमत एवैकं शास्त्रं प्रमा. णत्वेन स्वीकृतं तस्याप्यप्रामाण्यापादनं न कार्यमिति भावः ।

प्रक्रमात्तु नियम्यते ।

उक्ताभिप्रायेण नियमः। एवं दर्शपूर्णमासौ साङ्गो व्याख्याय गुणभेदनिबन्धनप्रयोगमेदान्दर्शपूर्णमाससंस्था- विशेषान्व्याख्यातुं प्रतिजानीते-

दर्शपूर्णमासयोः काम्यान्कल्पान्व्याख्यास्यामः ।

कर्मान्तरत्वशङ्कानिरासार्थ प्रतिज्ञा ।

अनेन दर्शपूर्णमासाभ्यामृद्धिकामो यजेत ।

अनेन वक्ष्यमाणेन गुणविकारेणोपलक्षितदर्शपूर्णमासाभ्याम्राद्धः संपत्तत्कामः । दर्शपूर्णमासशब्दसामानाधिकरण्येन नेयं विकृतिरपि तु गुणविकृती दर्शपूर्णमासावेद शब्दान्तरादिभिः कर्मभेदाभावादिति भावः । प्रयोगमाह-

द्वे पौर्णमास्यौ यजेत द्वे अमावास्ये ।

यजेतेत्युभयत्र । प्राप्तयोरनुवादेनीम्यासो विधीयते । दाक्षायणयज्ञे स्पष्टमुक्तं पूर्वेधुर्थनते वेदिमेव तत्करोति यद्वत्सानपाकरोति सदोहविर्धाने एव समिनोति यद्य- जत इति तद्वदत्रापि द्वे अभ्यस्ते एकः पञ्चदश्यामपक्रान्तो यागो यथाप्रकृति प्रति- पदि समापनीयः पुनः प्रतिपदि प्रारब्धो द्वितीयायां समापनीय आगन्तुकस्यान्ते निवे. शात् । ततः परं नित्यावेव दर्शपूर्णमासौ कार्यों । काम्यस्य गुणस्याभ्यासलक्षणस्यानु. ष्ठितत्वात् । तत्राय प्रयोगः-अभ्यस्ताम्यां दर्शपूर्णमासाम्यामृद्धिकामो यक्ष्य इति १ घ..जझ, ञ, द, नियम्येत । २क, ग, च, छ.ट, ठ, ण."देचाभ्या।