पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३३ ६५०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

अग्निदेवाः।

अतिरिक्तं न्यूने जुहोमि न्यूनमतिरिक्ते जुहोमि । समꣳ समे जुहोमि स्वाहाकृताहुतिरेतु देवान्।

देवाः।

यदकर्म यन्नाकर्म यदत्यगाम यन्नात्यगाम यदत्यरीरिचाम यन्नात्यरीरिचाम । तत्त्वं विष्णो यज्ञे यज्ञं प्रतिष्ठापय स्वाहाकृताहुतिरेतु देवान् ।

विष्णुदेवाः।

यत्प्रमत्तान्तरगाम किंचिदस्मिन्यज्ञे मन्त्रतः कर्मतो वा । अनयाऽऽहुत्या तच्छमयामि सर्वं तृप्यन्तु देवा हविषो घृतस्य स्वाहाकृताहुतिरेतु देवान् ।

देवाः ।

ब्रह्म प्रतिष्ठा मनस इत्येषा।

ब्रह्मयज्ञौ देवाः । गन्यत्र पठिता ग्राह्येत्यर्थः । तस्यां शाखायामन्यत्र पाठादेव- मुक्तम् ।

ततं म आपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते । अयꣳ समुद्र उत विश्वभेषजः स्वाहा कृतस्य समु तृप्णुतर्भुवः ।

भवः।

उद्वयं तमसस्पर्युदु त्यं चित्रम् ।

इत्यपि प्रतीकेन द्वे सूर्यों द्वयोः ।

यद्वो देवा अतिपादयानि वाचा चित्प्रयतं देवहेडनम् । अरायो अस्माꣳ अभि- दुच्छुनायतेऽन्यत्रास्मन्मरुतस्तं निधेतन ।

देवा मरुतः।

यत इन्द्र भयामहे ततो नो अभयं कृधि । मघव- ञ्छग्धि तव तन्न ऊतये विद्विषो विमृधो जहि ।

मघवानिन्द्रः ।

स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी । वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयंकरः ।

वृत्रहेन्द्रः।

३०