पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ सत्यापाढविरचितं श्रौतसूत्र- [२ द्वितीयप्रश्ने-

वाजिनमित्यन्तः । याजमानमप्यनेन । सा पत्नी तं वेदम् ।

अस्यते ।

नानेन मन्त्रः संबध्यते लिङ्गानुगुणत्वाभावादने मन्त्रविधानाच्च । अत्र वैकल्पिक वक्तुं प्रतिज्ञामा क्रियते मन्नस्तु सयोपस्थस्थापने । उपस्थोऽङ्कः । अयं शाखा- । तरीयो विधिगत्पत्त्यै वेदस्य दानं स्वशाखीयमाह ।

होताऽस्यति ।

होताऽस्यतीत्येकेषामग्रिममाकृष्यते प्रयच्छति वाऽस्यति वेत्यर्थः । उपस्थ एव तथाऽऽपस्तम्बे दर्शनात् । अस्यति क्षिपति, तत्र वेदोऽसीति धृतवन्तमिति च द्वाभ्या- मस्यति तथैवाऽऽपस्तम्वेनोक्तम् । प्रदानाभावे वोपस्थे करणमपि पत्न्या नास्ति ।

त्रिरवस्यतीत्येकेषाम् ।

सकृन्मन्त्रः । द्विस्तूष्णी, होताऽस्यतीत्येकेषामित्यपि संबन्धः। अवस्यत्यवसानं प्राप- यति । धात्वन्तरमेतदस्यतेः सकाशात् । अवसान स्थापनं तत्पुभः पुनर्गृहीत्वैव नान्यथा।

निर्द्विषन्तं निररातिं नुदेति वेदं पत्नी निरस्यते ।

यदि गृहीत्वोपस्थे कृतो यदि वाऽङ्क होत्रैवास्तो यदि त्रिवसितो वा तदा गृहीत्ला गृहीत्वा मन्त्रेण निरस्यते प्रास्तं प्रास्तं प्रति निरस्यतीत्यापस्तम्बोक्तः । निर- स्यत इत्यात्मनेपदनिर्देशनाऽऽत्मगामिता निरसनान्तक्रियाजन्यफलस्योक्ता । तेम प्रतिपत्नि वेदादानादीति गम्यते । मन्त्रालिङ्गं च घृतवन्तमित्याद्याशीलक्षणं स्पष्टमेव । निषिन्तमित्यपि प्रतिकूलनिरसनमिष्ट मेवेति पुरुषार्थत्वादावृत्तिः । आदाननिरसनयोः पत्नीसंस्कारत्वात् । वेदोऽसीति योऽध्वर्यमन्त्रः सोऽप्याशीरेव । साऽपि यजमाना गामिनीति न्यायनिश्चयः । ब्राह्मणमपि प्रमापतेर्वा एतानि श्मश्रूणीत्यादि फलमेवाऽ5- हातोऽनेकासां कार्यम् ।

इमं विष्यामीति योक्त्रपाशं विष्यते ।

आत्मनेपदेन पत्नी की, आशीर्मत्रत्वादेव । एवं च ब्राह्मणं विरुध्यते-यो वा अयथादेवतं यज्ञमुपचरत्या देवताभ्यो वृश्चयते पापीयान्भवति यो यथादेवतं न देवताम्य आवृश्चयते वसीयान्भवति वारुणो वै पाशः, इमं विष्यामि वरुणस्य पाश. मित्याह वरुणपाशादेवनां मुश्चतीति । सर्वत्र पुंनिर्देशाकर्तृत्वमध्वर्योरेनामिति कर्तुरन्या कर्मत्वेन निर्दिष्टा पत्नी । तस्मान्न विमोकः पत्नीकर्तृकः । विष्यामीति परस्मैपदाच्च । इदमेव मनसि कृत्वोक्तं वैखानसेन-इमं विष्यामीति पत्नी वाचयतीति । ततस्तु स्योनं मे सह पत्या करोमोत्याहाऽऽत्मनश्च यजमानस्य चानात्यै सत्वायेति | मे मन्त्रवत्तपाऽऽस्मन इति फलादेशोऽपि युज्यते । तथा चाऽऽध्वर्यबसंज्ञा न 1 2