पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ : सत्याषाढविरचितं श्रौतसूत्रं- [ २द्वितीयप्रश्चे- णेऽध्वर्युरुत्कर आग्नं धो मध्ये होतेत्युक्तम् । त्रयाणामपि पश्चागार्हपत्यस्योपवेशनेन याजने वक्तुमुपविश्य याजयन्तीति च बहुवचनं प्रयुक्तम् । पत्नीरिति पत्नीसंयाजा- नामितिनामधेयानुसारण पत्नीशब्देन सर्वा देवता गृह्यन्ते देवपत्नीसहभावात् । अत एव केवलग्रहणाय देवानां पत्नीरिति वदिष्यति । ध्वानेन स्वरेण त्रयो ये याज्यानुवाक्ये होतुरमुष्मै बृहीत्याद्यध्वर्यारस्तु श्रौषडित्य नीवस्य ध्वाननैव गम्यन्ते । तत्र होतुरुचैःस्वर एव ऋग्वेदविहितत्वात् । अन्ययोरुपांशु यजुर्वेद विहितत्वात् । तयोः पुनरन्यत्राऽऽश्रुतप्रत्याश्रुतेभ्य इति प्रतिप्रसवात्पुनरुचैरेव प्राप्तिस्तनिवारणमनेन क्रियते । यद्यपि सामर्थ्यात्परप्रत्यायनार्थानां बहीत्यादिवषडन्तानां नोपांशता संभा- व्यते तथाऽपि वानेनापि पर प्रत्यायनं भवेदिति तत्रापि ध्वान एव । ध्वानो हि खर- व्यञ्जनयोः पृथगनुपलब्धिर्वान इति लक्षितत्वात् । एवकारेण परप्रत्यायनार्थानामपी- त्युक्तम् । अथवा बहुवचनेनैव तदृक्तमेवकारेण सूत्रान्तरोक्तेनोपांशूच्चैःस्वरेण विकल्पो मा भूदिति । वैखानस उपांशूच्चैर्वेत्याह । ध्वानेनोपांशु वेत्यापस्तम्बः । अत्राऽऽज्यमेव द्रव्यमनादेश आज्यमिति बैधायनोक्तम् । महीनां पयोऽसीति निर्वपामि देवयज्याया इति मन्त्रलिङ्गात्सर्वार्थत्वेन निर्वापाच्च । यद्यपि सर्वस्मै वा एतयज्ञाय गृह्यते यद्धृवायामाज्यमित्यपि श्रूयते तथाऽपि वेद्यां गृहीतं न पश्चान्नयन्तीति प्रतिषे. धाभिप्रायेणोक्तं गार्हपत्य आज्यार्थान्स्थाल्या आज्येनेति । तानि सर्वाणि चतुही- तान्येव यागार्थत्वात् । याज्यापुरोनुवाक्यावतीषु चतुरवत्तं पञ्चावत्तं जमदग्नीनामिति परिभाषितत्वादत्रैव । यागधर्मा अपि पत्नीसंयाजेषु च याज्यारोनुवाक्ये इत्युक्तम् । तथाऽऽश्रुतप्रत्याश्रुते याज्यासंप्रेषश्चेति तथा पुरोनुवाक्यामवदास्यन्नवत्ते वा संप्रेष्य- त्यमुष्मा अनुब्रूहीति तत्सर्वमनुसंधेयमिति तूष्णीमत्र याजयन्तीत्युक्तम् ।

वेदं चोपभृत्य पत्न्यामन्वारब्धायामुत्तरार्धे सोमं यजति दक्षिणार्धे त्वष्टारं तावन्तरेणेतरा यजति ।

यजतीत्येतदनूयाजेषु व्याख्यातम् । वेदं चेत्यूपभृता समुच्चयार्थश्वकारः स्पष्ट मन्यत् ।

परिश्रितेऽपरिश्रिते वा देवानां पत्नीर्यजति ।

सूत्रान्तरोक्तनियमव्युदासायानियम उक्तः । परिश्रितमावृतं व्यवहितमाहवनीया- त्तयैवाऽऽपस्तम्बोक्तः । अन्यथा त्वपरिचितम् । देवानां पत्नोरिति सोपपदेन सर्वपत्नी- संयानदेवतानिवृत्तिः । न तु लिङ्गसमवायेन सर्वासामपि नामधयम् । पत्नीसयाना इति । १. ग. च. छ. ट. ट..गम्यते । ३ ख. ट. 'थगुप। ख. र. विनिर्वा । प.क. ज.म. म. क. 'ते दें।