पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- तुं०पटलः] महादेवकृतवैजयन्तीब्याख्यासमेतम् । २०९ होत्रेऽङ्गुलिपञ्जिनार्थमध्वर्युमावर्तमानं परितो गृह्णाति बहिरिडा धृत्वा गन्तुमवकाशं प्रयच्छतीत्यर्थः । पक्षद्वयेऽपि विधिमाह-

अग्रेण होतारं दक्षिणाऽतिक्रम्य पश्चात्प्राङा सीनो होतुरङ्गुलिपर्वणी अनक्ति ।

सुवेणाऽऽज्यमादाय होतुरप्रदेशेन दक्षिणां गत्वा प्रदक्षिणां कृत्वा प्रदक्षिणमावृत्य पश्चात्प्राङ्मुख आसीन एव होतुरङ्गुलिपर्वणी तर्नन्याः प्राथम्यादस्या एव पर्वणी द्वे तेन वेगानक्ति । त्रुवेणानक्तीत्यापस्तम्बः । प्रदेशिन्यङ्गुलावनक्ति पर्वणोरिति वैखानसः । होतृसंस्कारोऽञ्जनम् । कममाह-

पूर्वमग्रेऽथापरम् ।

पूर्व मूलपर्वाग्रे प्रथममत्वाऽपरमधस्तन मूलपर्व । पर्वशब्देनात्र संधी उच्यते काण्डात्काण्डादिति पर्वापरपर्यायः काण्डशब्दो हि संधिवाच्यपि। तयोरेव द्वित्वमङ्ग- ठपर्वमात्रमत्र संहितमिति विशेषो यावदिद(दुत्तम)मङ्गुलिकाण्डमित्यपि दर्शनात् । अङ्क्त्वा-

तत्सोऽवघ्रायाप उपस्पृशति ।

स होता, तदक्तमाज्यम् । श्रौत उदकस्पर्शः । हौत्रविधानं याजुर्वेदिकत्वात् ।

यथेतं प्रत्येत्य पुरस्तात्प्रत्यङ्ङासीनो दक्षिणे होतुः पाणाविडाया अवान्तरेडामवद्यति ।

पूर्व न प्रत्ता चेदिडां तदा प्रत्येत्य होतुर्हस्ते प्रयच्छति । ततो होतुः पुरस्तात्प्रत्य- मुख आसीनो होनुहस्ते दक्षिण इडायाः सकाशात् । स्पष्टमन्यत् । प्रकारमाह-

लेपादुपस्तृणाति ।

होतुः पाणाविडापात्रगतेनाऽऽज्यलेपेन स्वेण गृहीतेनोपस्तृणाति ।

स्वयꣳ होता मध्यतो द्विरादत्तेऽध्वर्युर्वाऽन्यतरत् ।

ततो होतेडापात्रात्स्वयमेव द्विरादत्तेऽथवाऽध्वर्युरेकमवदायापरं होताऽऽदत्ते विप- रीतं वा । इडापात्रमध्यात् ।

लेपेनाभिघारयति १

सष्टम् ।

उपह्वयते होता ।

.ख. ज, मसं° 1 २ क, ख, ग, च. छ. ट.. होता। ३. म, झ, भ, इ. ान चामि°