पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- सत्यापाढविरचितं श्रौतसूत्र- [१प्रथमप्रश्ने- तथा च यज्ञो व्याख्येयत्वेन विषयस्तज्ज्ञानं सूत्रस्य शास्त्रस्य प्रयोजनम् । तच्चानुष्ठानाङ्गम् । एवं च प्रतिज्ञाते व्याख्येयत्वेन. कर्ममाने तस्य यावत्फलस्वरूप. लक्षणप्रमाणानि न ज्ञायन्ते तावन्न प्रयोगानुष्ठाने प्रवर्तते किंफलक किस्वरूपं कि- लक्षणकं किंप्रमाणकमित्याकाङ्क्षायाः प्राथम्यात्तत्राऽऽह--

स त्रिभिर्वेदैर्विधीयते ।

यज्ञो व्याख्येयः सफलत्वात् । सफलता च ज्ञायते । कुतः । यतो वेदैः श्रेयः- साधनतया विधीयते । एतदपि सामर्थ्य वेदानाम् । कुतः । अध्ययनविधिरूपावदादेव । नहि श्रेयःसाधनं विनाऽन्यद्विधेयमिति संभवति । तस्मादयं व्याख्येयो न ह्यन्याख्यातोऽनुष्ठातुं शक्य इत्यभिप्रायः । स विधात्रयेण प्रसिद्धो यज्ञपदोपलक्षितो धर्मत्रिविधैर्वेदैरपौरुषेयत्वेन निरस्तसमस्तदोषाशकैर्वेदत्वेन च स्वतःप्रमाणैः कर्तव्यत. योपदिश्यते । सर्वस्य मन्त्रब्राह्मणात्मकस्य सार्थवादस्य विध्येकवाक्यतापर्यवसानार्थ विधीयत इत्युक्तम् । अन्यथा ज्ञाप्यत इत्येवावक्ष्यत् । यदि लौकिकप्रमाणवत्प्रमाकरण- स्वमात्रेणैवाविवक्षिष्यत् । न ह्यश्रेयःसाधनं कर्तव्यत्वेन वेदेनोपदेष्टुं शक्यते । अतः श्रेयःसाधनमिति भावः । स्वाध्यायोऽध्येतव्य इति दृष्टार्थेनाध्ययनविधिना यद्यदृष्टप्र. योननं येन यथा कर्तुं शक्यते तथा तेन तत्कर्तव्यमित्यनुज्ञायते । स्वाध्यायस्य शब्द- रूपस्य ज्ञानोत्पादनमात्रे शक्तिः । एवं च सति तत्र विधेः प्रवर्तनावाचकस्यान्येषां प्रवृत्तिरूपप्रयत्नापरपर्यायमावनादिप्रतिपादकपदानां विधिव्यापारविषयतपेक्षितकार- कार्थज्ञापनकवाक्यतया प्रामाण्यम् । नामधेयस्यापि करणावच्छेदकत्वेनैकवाक्यत्वम् । अर्थवादानां विध्यपेक्षितेतिकर्तव्यतालक्षणप्राशस्त्यलक्षणत्वेन नामाण्यं, तेषामनन्यप्रयो- मनानां शब्दानां यज्ञे प्रामाण्यम् । यज्ञतत्साधनस्मृत्या वा साक्षात्स्वार्थस्तुत्याऽऽरादुप- कारकया वा मन्त्राणां यज्ञोपयोगे सति स्वार्थप्रकाशनद्वारैव नोचारणमात्रेण यज्ञत- साधनातेत्येवमर्थस्य नियमविध्युन्नायकत्वेन पदार्थविधयाऽङ्गतां गतानामपि प्रामा- ज्यम् । पदार्थानामपि वेणावद्यत्ति हस्तेनावद्यति स्वधितिनाऽवद्यतीत्यत्र पदार्थसा- मर्येनैव नियमप्रमाकरणता तथा मन्त्राणामपि । एवं च स्वाध्यायपदापरपर्यायवेदप- देन स्वाध्यायाध्ययनविधिनोक्तं प्रामाण्यं वेदे दर्शितम् । अन्यथा विधिलक्षणानि कर्माणात्यनेनैव सेत्स्यतीत्यनर्थकमेवैतत्सूत्रं स्यात् । स्वरूपलक्षणप्रमाणानां तत्रैव सिद्धेः । मतः सर्ववेदप्रामाण्यायैवेदं सूत्रम् । तथा च वेदेवाध्यत इत्यपि स्वाध्यायाध्ययनविधि- नैव वेदेन ज्ञापितमित्यप्यावेदितम् । अध्ययनविधेरेकशाखामात्राध्ययनेन पर्यवसानम् । अन्यथाऽशक्यार्थविधायकत्वादप्रामाण्यमध्ययनविधेः । स्वशाखानध्ययन एव दौा- मण्यम् । एवं च सति वेदचतुष्टयस्य प्रामाण्यं स्थितम् । .. ल. च. छ, "क्षिताका । २ ख. च छ. ध्यायोऽध्य ।