पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ १५०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । खराणि करीराणि समिधः शकलानि च । सोमो मध्वाप इत्येवंप्रकाराण्यप झौकिक ॥ अपूपाः किंशुकतिलकङ्गा अन्यानि कानिचित् । श्रोते द्रव्यप्रधानं तदध्वर्योः कर्म चोदितम् ॥ अतस्तेषां व्याख्यानं विशेषेण शाखान्सरप्रयोगव्यावृत्ततया प्रातिशाख्यधर्मस्य प्रयोग- रूपेणोपदेशातिदेशाम्यामङ्गाङ्गिमावेनानुष्ठानक्रमस्य व्याख्यानं प्रदर्शनम् । बहुवचनं च सूत्रान्तर शास्त्रान्तरवक्तृसमुच्चयार्थम् । यदाहुः-' किंचित्स्वयं नाम विचारयन्ति कात्यायनाद्याः खलु सूत्रकाराः । मीमांसयैवेति त आहुरेनमन्योन्यविद्धा हि भवन्ति विद्याः ॥ इति । न्यायो मीमांसा नाना विद्यास्तु परस्परसापेक्षाः परिगणिताः कर्मज्ञानयोः कार- गत्वेन भगवता योगीश्वरेण याज्ञवल्क्येन- 'पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ ' इति । पुराणग्रहणमितिहासरामायणादिकाव्यादीनामप्युपलक्षणम् । पुराणैरुपाख्यानः सार्थ- वादस्य समन्त्रस्य वेदस्यार्थावबोधो देवतास्वरूपज्ञानं स्वर्गापवर्गफलस्वरूपज्ञानादिकं प्रयोजन, न्यायो नैयायिकवैशेषिकशास्त्रं, तत्र प्रत्यक्षादिप्रमाणद्रव्यगुणकर्मजाति- ध्यक्त्यादिज्ञानम् । मीमांसाद्वयेन ज्ञानं तु स्पष्टमेव कर्मब्रह्मविषये । देवताकाण्डमपि ब्रह्म मीमांसव । धर्मशास्त्रेणाऽऽचमनशौचाद्याचारस्य सकलौतस्मातकाङ्गमूतस्य विधा- । नात् (नम्) । अनोपयोग उक्त एव । वेदैः प्रयोगः साक्षादेव । एतानि चतुर्दश वेदान्तानि कर्मब्रह्मविद्यानां स्थानान्यसाधारणकारणानि धर्मस्य चोत्पादकानि च । वत्र सूत्रैः प्रयोगे रचनाये मीमांसाऽन्तरङ्गमङ्गम् । तथाहि-धर्मो द्वादशलक्षण्या व्युत्पाद्यस्तत्र लक्षणैः । प्रमाणभेदशेषत्वप्रयुक्तिक्रमसंज्ञकाः ॥ अधिकारोऽतिदेशश्च सामान्येन विशेषतः । उहो बाधश्च तन्त्रं च प्रसङ्गश्चोदिताः क्रमात् ।। लक्षणानि अध्याया द्वादशानां लक्षणानां समाहारो दादशलक्षणी तादृशस्य द्वाद- शाध्यायोपेतस्य शास्त्रस्य धर्मो विषयः। प्रमाणादयः प्रसङ्गान्ता द्वादश पदार्थाः क्रमा- द्वादशानामध्यायानां विषया इति । मीमांसया तु साक्षात्सूत्रैरर्थज्ञाने जन्येऽवान्तरन्यापा- ररूपया मीमांसया विना प्रयोगविज्ञानं न भवतीति व्याख्याङ्गत्वेन न्याया अपि प्रतिज्ञा- तास्ते केचित्स्वेन व्याख्यास्यन्ते केचित्प्रयोगेणैव सूचिता अन्यतो ग्राह्याः। केचित्स्वा- भिमता एव निर्णेष्यन्त इति व्याख्यास्याम इति बहुवचनेन सूचितम् ।