पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- १४ सत्याषाढविरचितं श्रौतसूत्रं- [१प्रथमप्रश्ने- साधारण्येन नित्यत्वाधानमानार्थत्वेनाऽऽवश्यकत्वाच्च । ततः परमविरक्तश्चेत्कर्माणि कुर्या- स्करोतु नाम न तं निवारयति वेदो दर्शयति परं साध्यसाधनभावमात्रम् । तज्ज्ञान- स्याऽऽवश्यकता । काम्यकर्माकरणे स्वप्रत्यवायेऽपि तद्याख्याने तज्जन्यज्ञानस्य नियत- त्वात् । व्याख्यास्याम इति फलकरणेतिकर्तव्यतालक्षणांशत्रयविशिष्टां मावनां विविच्य कथयिष्यामः । यज्ञस्यार्थरूपस्य न व्याख्यान संभवति, वाक्यपदप्रकृतिप्रत्य- यविभागेन शब्दार्थकथनं व्याख्यानं न चार्थस्य तत्संभवति । तस्मादेवमवगम्यते वेदैरिति वदिष्यति तदिदं वेदव्याख्यानमेव न्यायैः क्रियमाणं फलतः प्रयोगरूपेण व्यवस्थित भवति । वेदपाठक्रममपहाय यज्ञप्रयोगक्रमानुसरणं दर्शयितुमर्थप्राधान्येन निर्देशो न्याथीमांसायां वाक्यप्राधान्येन सूत्रे तु प्रयोगप्राधान्येनेति भावः । अर्थनिर्देशेन चैत- सूचितं द्रव्यदेवतादिकानेकार्थप्रयोगप्राधान्यतया यजुर्वेदविहितवादावर्यवमिति ज्ञापितं कानिचित्कर्माणि मन्त्रमात्रजन्यानीति हौत्रोद्भातृत्वयोमन्त्रप्राधान्यम् । अत एवाऽऽश्वलायनाचार्यः-' अर्थतस्य समानायस्य विताने योगापत्ति वक्ष्यामः शब्दप्राधान्येन प्रतिज्ञां कृतवान् । ब्रह्मत्वव्याख्यानं तु प्रतिवेदं सद्भावप्रदर्शनार्थम् । भाग्नीधर्मशतो व्याख्यातं यावद्यजुर्वेदविहितमवशिष्टं याजमानं च । सर्वेषामध्वर्युवेदान्त- सवात्कथनम् । हौत्रस्य दर्शपूर्णमासिकस्य व्याख्यानं तदपि यहग्वेदे विहितं हो सत्रैव याजुर्वेदिकगुणोपसंहारमात्रप्रदर्शनेन विकल्पप्रदर्शनपरम् । तत्र प्रसङ्गादनारम्य विधिसामान्यन्यायव्याख्यानं सर्ववेदसाधारणं च कृतं तथाऽपि यजुर्वेद विहितेऽध्व- र्युकर्मणि यज्ञरूपोत्पत्तिरूप एव प्राधान्यमत्र सूत्र इत्याशयः । द्रव्यदेवते हि कर्मणो रूपम् । तथोक्तं कात्यायनेन-'यज्ञं व्याख्यास्यामो द्रव्यं देवता त्यागः ' इति । देवता या यत्र विहिता सा तत्र न जात्या काचित् । द्रव्यं तु नियतम् । तत्र श्लोकाः-द्रव्यं पशुसमुद्भूतं नवधा चोदितं मवेत् । पयो दध्याज्यमामिक्षा वपा मांसंच वाजिनम् ॥ स्वग्लोहिते अश्वमेधे वपाविष्टकृतोः कृते । पुरोडाशो यवागूश्च चरुर्धानाः करम्भकः ।। परिवापः सुरा मन्य इत्यष्टौषधिजान्यथ । सोमो लतामवश्चान्ये पूतीकाद्या अभावतः ॥ आपः संसृष्टहविषि कृष्णला मध्वमूनि तु । वषट्कारप्रधानानि हवींषि यनिकमणि ॥ स्वाहाकारप्रदानानि होमार्थानि पयो दधि । आज्यं मांसं वसैतानि पशुजान्यथ चौषधम् ॥ ओदनोऽथ यवागूश्च तण्डुला लाजतक्तवः । मस्पा(स्य) पृथुकादीनि बहिरादीन्यनेकधा ॥