पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५०पटलः महादेवकृतर्वैजयन्तीव्याख्यासमेतम् । तत्र वैगुण्ये प्रायश्चित्तेन परिहारः प्रतिबन्धकस्य दुरितापूर्वस्य भवेत् । त्वत्पक्षे प्रधाना- नुत्पत्तौ चापूर्वस्यैवानुत्पत्तेः प्रायश्चित्तशतेनापि समाधान न भवति । नहि भस्मसाहू- तस्य द्रव्यस्यानुत्पन्नस्य वा त्यागो यागो द्रव्यनिरपेक्षोऽपूर्व साधयेदसाधयंश्च न्यो- त्पत्तेरदृष्टार्थत्वमापादयेद्यवाग्वाः पाकस्येव पूर्वपक्षे । प्रवसति यजमाने निमित्तवशात्प्राप्ते- ष्टिदर्विहोमानामननुष्ठानेऽग्निनाशः प्रसज्येत । तथाऽऽधाने तु त्यागायोगादध्वर्युणा कृते तज्जनितसंस्कारोऽपि तत्रैव प्रसज्यतेत्यलमतिप्रसङ्गेन । न्यायमतमिव कात्य यनीयमपि मतं सूत्रान्तरोपदेशविरुद्धमिव तत्र तत्र दृश्यते । तथा ह्यवदानदोघे पुनरुत्पत्तिव्यस्यो च्यते जैमिनिकात्यायनाम्यामन्यस्त्वाशयादेवावदानं पुनरपीप्यते । व्याख्यातारोऽप्यत एव न्यायमतमुपदेशमतं च तत्र तत्र विविच्य दर्शयन्ति । न ह्युपदेशशब्दो न्याया- पेतेऽर्थे प्रयुज्यत इति वाच्यं, सामान्यन्यायप्रधान शास्त्र न्यायशब्देनोच्यते । प्राति- शाख्योपदेशविचारात्मक चोपदेश इत्युक्तम् । तथोपदेशप्रधानं कल्पसूत्रमपि सोपदि. ष्टन्यायगर्भमेवोपदेश इति । वेदो युपदेशो न लौकिक वाक्यम् । तस्मात्परिक्रयलब्धैर्ऋ- विभिरनुष्ठितस्य प्रधानस्यापि फलं यजमानगाम्यवेति यदि श्रुतिरावेदयेत्का नामानु- पपत्तिः। यानमाने फलोदेशेन संकल्पो यक्ष्य इति सर्वकर्मसु श्रौत एव फलमात्मसात्करो- तीति वक्ष्यते । तथा च साङ्गयागसंकल्पमात्रेण सर्वो यागो यजमानकर्तृक एव । तस्सि- धर्थमेवत्विनः कुर्वन्तीति शास्त्रफलं प्रयोक्तरीति न न्यायविरोधः संकल्पेनैव प्रयो. क्तृत्वात् । तस्माद्यज्ञशब्दोऽपि यागापरपर्यायो यनतिचोदिते वषट्कारपदानरूप एवं कर्मणि वर्तते नान्यत्र । अन्यत्राग्निहोत्रादौ प्रयोगो न मुख्योऽनेकार्थत्वस्यान्याय्यत्वात्सं- भवन्त्यां गतौ । सूत्रकारोऽपि वक्ष्यति पञ्चयज्ञान्प्रकृत्य ' महायज्ञा महासत्राणीति स्तुतिः' इति । तेनतेऽपि प्रयोगे व्याख्याता ये पिण्डपितृयज्ञः पाकयज्ञा हविर्थज्ञा अग्निहो- त्रस्य यज्ञक्रतोरित्याद्या नामरूपास्तथाऽऽख्याता अपि पिण्डपितृयज्ञेन यजेताऽऽग्नेयेन स्थालीपाकेन यानयतीत्याद्याः । ' देवान्देवयजो यान्ति' इत्यादयोऽपि दानकदेशेन लक्षणया यजेर्दानार्थस्य व्युत्पत्त्या वा क्वचिद्धोमार्थस्य ज्ञेया उक्तप्रवृत्तिनिमित्तस्य च दहोमेष्वमावात्। तस्मात्प्रकृतिविकृत्यात्मना बाहल्याद्यज्ञस्य यज्ञशब्देन सर्वसूत्रप्रति- पाद्योऽर्थः संगृहीतः । अस्ति च श्रुतिस्मृतिषु यज्ञशब्देनोपादानं सर्वेषां वर्णाश्रमधर्मा- णाम् । तथाहि ' महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः । इति 'त्रिभित्रणवा जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः । इति । विविदिषन्ति यज्ञेन' इत्येवमादिषु यज्ञशब्देनाऽऽवश्यकानि गृह्यन्ते । अत एव भगवान्बादरायणः 'सर्वापेक्षा यज्ञादि- श्रुतेरश्ववत् । इति । श्रुतौ ' यज्ञेन देवेभ्यः' इति 'यज्ञेन विविदिषन्ति ' इति चैकव- चन य(नवद्य)ज्ञमिति [न] विवक्षितम् । किंबहुना सकलवेदार्थज्ञानस्यैव सकामनिष्काम. १०. येत्याध' । २ ख. छ. वेदो। ३क. ग. छ. योगव्या । ४ ख. च. 'यज्ञाः पा।